पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९६
[शिशुरक्षणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः ॥
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ।
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्त्वत्पार्श्वयोर्धनुरसी मधुहाऽजनश्च ॥
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ।

इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ॥
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ।
पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः ॥
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ।
व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः ॥
भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयंकरः ।
डाकिन्यो यातुधान्यश्च कूश्माण्डा येऽर्भकग्रहाः ॥
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ।
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ॥
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ।
स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ॥
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः
इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् ॥
पाययित्वा स्तनं माता संन्यवेशयदात्मजम्" इति ।

 द्वादशाङ्गेषु ललाटादिषु केशवादिद्वादशनामभिः । अनाचान्ता एव प्रथममतिसंभ्रमेणैव रक्षां कृत्वा किंचिल्लब्धाश्वासाः पुनस्तात्पर्येण बीजन्यासमकुर्वतेत्याह-- गोप्य इति । संस्पृष्टसलिला आचान्ता आत्मनि प्रथममङ्गेषु करयोश्च पृथगजाद्येकादशवीजानां मध्ये करशुद्धौ त्रीणि करयोः संधिषु चत्वारि[१] चत्वारि तथाऽङ्घ्ज्यादावेकैस्मिन्नङ्गेऽजाद्येकैकं बीजं न्यस्य बालस्याप्यङ्गेषु तथैवाकुर्वत । अङ्घ्रि अङ्घ्री । जानु जानुनी । भुजं भुजौ । कं शिरः । चक्रसहितो हरिस्तवाग्रतोऽस्तु । सहगदो गदासहितो हरिस्तव पश्चादस्तु । त्वत्पार्श्वयोर्धनुर्धरो मधुहाऽसिधरोऽजनश्च । शङ्खधर उरुगायश्चतुष्कोणेषु । क्षितावधस्तात् । आत्मानमहंकारम् । संन्यवेशयत्, शाययामासेति श्रीधरेण व्याख्यातम् । इति शिशुरक्षणविधिः ।


  1. ख. च. रि त ।