घृतमासादिते पायसे निक्षिप्य काञ्चनाद्यन्यतमे पात्रे तत्पायसं निक्षिप्य मङ्गलघोषपूर्वकं स्वर्णदर्व्या रौप्यदर्व्या वा किंचिदेकवारं प्राशयति । ततो यथेष्टं प्राशयति । अथ वा मधुदधिघृतमिश्रमन्नं प्राशयति ।।
ततस्तन्मुखं प्रक्षाल्य तं भूमावुपवेश्य तदग्रेऽस्त्रशस्त्रपुस्तकादिशिल्पानि विन्यस्य स्वेच्छया शिशुर्यत्स्पृशेत्साऽस्य जीविकेति परीक्षां कुर्यात् । इदं च कुमार्या अप्यमन्त्रकं होमरहितं कार्यम् । इत्यन्नप्राशनम् ।
अथ शिशुरक्षणविधिः ।
यदि बालस्य प्रमादाद्भुवि पतनादिना भीतिरुपजायते तदा पार्थिवं रजः परिगृह्य शिशुशिरः प्रदक्षिणं कुर्वन्विष्णुस्त्वां पूर्वतः पात्वित्यादिभिर्मन्त्रै रक्षां कुर्यात् । एष च रक्षाविधिः शकटभञ्जने नन्दगोपेन भीतोऽयं शिशुरिति बुद्ध्या यदुनन्दनस्य कृष्णस्य कृतः ।
तथा च शिशुरक्षारत्ने--
"नन्दोऽङ्कमेनमारोप्य भूरेणून्परिगृह्य च । |
भागवतेऽपि--
"गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः । |