पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७८
[आयुर्वर्धापनम्]
भट्टगोपीनाथदीक्षितविरचिता--

 भविष्ये--

"प्रतिसंवत्सरं कुर्यान्मार्कण्डेयस्य पूजनम् ।
द्रौण्यादींश्च तथाऽभ्यर्च्य पाद्यगन्धादिभिस्ततः ॥
पुष्पाञ्जलिं समार्प्याथ प्रार्थयेद्वरमुत्तमम् ।
ब्राह्मणेभ्यस्ततो दद्यात्तिलान्क्षीरं घृतं गुडम् ॥
नीराजितो ब्राह्मणांश्च तोषयेद्भोजनादिभिः" इति ॥

 प्रतिसंवत्सरमितिवचनान्नित्याधिकारः । द्रौणिरश्वत्थामा । नीराजित इत्यत्र सुवासिनीभिरिति शेषः । ब्राह्मणांश्चेत्यत्र चकारः सुवासिनीग्रहणार्थः । आदिशब्देन दक्षिणानमस्कारादिग्रहणम् ।

व्यवहारनिर्णये--

"नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम् ।
मार्कण्डेयं नरो भक्त्या पूजयेत्प्रयतस्तदा ॥
ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम् ।
प्रह्लादं च हनूमन्तं विभीषणमथार्चयेत् ॥
स्वनक्ष[१]त्रं जन्मतिथिं प्राप्य संपूजयेन्नरः ।
पष्ठीं च दधिभक्तेन वर्षे वर्षे पुनः पुनः" इति ॥

 ब्रह्मपुराण आयुर्वर्धापनं प्रकृत्य--

"पूर्वाह्णे चैव जन्मर्क्षे स्नात्वा नद्यां नरोत्तमः ।
मध्वाज्यदधिसंयुक्ता दूर्वा मृत्युंजयेन च ॥
जुहुयाद्वै सहस्रं तु शतमष्टोत्तरं तु वा" इति ।

 मातृदत्तेन तु--इह केचिज्जन्मनक्षत्रे प्राक्संवत्सरात्प्रतिमासं नक्षत्रहोममिच्छन्ति तत ऊर्ध्वं संवत्सरे संवत्सर इति जन्मनक्षत्रे नक्षत्रदेवताको होम उक्तः सोऽपि कार्यः । इदं च मलमासे न कार्यम् ।

"उपाकर्म तथोत्सर्गः प्रसवाहोत्सवोऽष्टकाः ।
मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम्" इति पराशरोक्तेः ।

 प्रसवाहे वर्धापनकर्मप्रयुक्त उत्सवः प्रसवाहोत्सव इत्यर्थः । अस्मिन्दिने वार्ज्यान्युक्तानि स्कान्दे--

"खण्डनं नखकेशानां मैथुनाध्वगमौ तथा ।
आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत्" इति ॥

 अध्वगमः प्रवासः । मैथुननिवृत्तौ श्रीवृद्धिरिति रुद्रधरः । आमिषत्यागे जन्मान्तरीयश्रोत्रियत्वं फलमिति निबन्धकारा इति सदानन्दकीर्तिचन्द्रोदये ।


  1. ङ. च. क्षत्रज ।