पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६८
[प्रवासादागतस्य मेलनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पादान्प्रक्षाल्याऽऽचम्य परस्परमनीक्षन्तौ शिवसमीप उपविश्य शिवं नमस्कृत्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य द्वादशाब्दपर्यन्तादर्शनसूचितसर्वानिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकनविधिं करिष्य इति संकल्प्य गणेशं संपूज्य पुण्याहवाचनं कुरुतः । तत्र द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकनाख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिप्रयोगः । साम्बशिवः प्रीयतामिति समर्पणवाक्ये विशेषः ।

 तत उभौ परस्परमनवलोकयन्तावेव शिवसमीपे दीपौ प्रज्वाल्य साम्बशिवाय नम इति शिवं संपूज्यैतद्विधिज्ञान्ब्राह्मणान्पूजयेत् ।

 ततः शिवाग्र उभयोर्मध्ये द्विजैरन्तःपटं धारयित्वा बिल्वफलं नारिकेलफलं वा भङ्क्त्वाऽऽत्मनोर्देवस्य च मध्ये सघृतं रत्नयुक्तं स्वस्वकांस्यपात्रं संस्थाप्य शान्तिपाठसहितौ पात्रद्वयस्थे द्रवीभूते तस्मिन्नाज्ये परस्परं मुखनिरीक्षणं कुर्याताम् । अथवोभौ स्वं स्वं कांस्यपात्रं शुद्धोदकेन पूरयित्वा रत्नं तत्र निक्षिप्य तस्मिन्परस्परं मुखनिरीक्षणं कुर्याताम् । मुखनिरीक्षणोत्तरं वा फलभङ्गः । रत्ननिक्षेपणं कृताकृतम् । ततः पटं निःसार्य परस्परमालिङ्गनं कुर्याताम् ।

 ततः पुनः साम्बशिवं संपूज्य दक्षिणायुतं स्वस्वपात्रं ब्राह्मणाय दत्त्वा विभवानुसारेण ब्राह्मणेभ्यो दक्षिणां दत्त्वा पञ्चोपचारैः पुनः शिवं संपूज्य साष्टाङ्गं प्रणम्य द्विजान्सूर्यं च प्रणम्य गृहमागच्छेत्ताम् ।

 ततो हस्तपादप्रक्षालनं कृत्वाऽऽचम्य प्राणानायम्य प्राक्प्रवणाद्यन्यतमे देशे स्थण्डिलकरणादि कृत्वा वरदनामानमग्निं प्रतिष्ठापयामीति तस्मिन्स्थण्डिलेऽग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा द्वादशाब्दपर्यन्तादर्शननिमित्तकावलोकन विध्यङ्गभूततिलहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा वैशेषिकप्रधानहोमे--प्रजापतिं समस्तव्याहृतिभिरष्टोत्तरशतसंख्यघृताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वाऽग्निं स्विष्टकृतं हुतशेषेण यक्ष्य इत्यादि अङ्गहोमे वरुणं द्वाभ्यामित्यादि वा पूर्वान्तानुसारेणोक्त्वाऽन्वाधानसमिदभ्याधानादि । पात्रासादन आज्यासादनोत्तरं तिलानामासादनम् । आज्यपर्यग्निकरणकाले तिलानां पर्यग्निकरणम् । होमकाले स्थालीगताज्येन तिलानभ्यज्य मृगीमुद्रया होमं कुर्यात् । स्रुवेण दर्व्यामुपस्तीर्य तिलानुत्तरार्धात्सकृद्गृहीत्वा द्विरभिघार्य यदस्येति पूर्ववज्जुहुयात् । इमं मे वरुणेत्यादि वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कुर्यात् । कर्मशेषसमाप्तौ तमग्निं संपूज्य भस्म धृत्वा गच्छ गच्छेत्यग्निं विसृजेत् । एवमुभौ सति संभवे होमं कृत्वा ब्राह्मणेभ्यो भूयसीं दक्षिणां दत्त्वा