पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६२
[नामकरणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 धाता ददातु न इति चतुर्णां विश्वे देवा ऋषयः । धाता देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । तृतीयस्यानुष्टुप् । चतुर्थस्य त्रिष्टुप् । अनु न इति चतुर्णां विश्वे देवा ऋषयः । अनुमतिर्देवता । प्रथमद्वितीययोरनुष्टुप् । तृतीयचतुर्थयोस्त्रिष्टुप् । राकामहमिति द्वयोर्विश्वे देवा ऋषयः । राका देवता । जगती छन्दः । सिनीवालीति द्वयोर्विश्वे देवा ऋषयः । सिनीवाली देवता । अनुष्टुप् छन्दः । सर्वेषां नामकरणप्रधानाज्यहोमे विनियोगः । 'ॐ धाता ददातु नो रयिमी० नत्स्वाहा' धात्र इदं न मम । 'ॐ धाता प्र० म स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु नो रयिं प्रा० सः स्वाहा' धात्र इदं न मम । 'ॐ धाता ददा० जोषाः स्वाहा' धात्र इदं न मम । 'ॐ अनु नोऽद्यानुमति० यः स्वाहा' अनुमत्या इदं न मम । 'ॐ अन्विदनु० षः स्वाहा' अनुमतय इदं न मम । ॐ अनुम० च्छतु स्वाहा' अनुमतय इदं न मम । 'ॐ यस्यामिदं० यच्छतु स्वाहा' अनुमत्या इदं न मम । 'ॐ राकामह मुक्थ्य स्वाहा' राकाया इदं न मम । 'ॐ यास्ते राके सु० रराणा स्वाहा' राकाया इदं न मम । 'ॐ सिनीवालि पृथुष्टुके० ढ्ढि नः स्वाहा' सिनीवाल्या इदं न मम । 'ॐ या सुपाणिः० जुहोतन स्वाहा' सिनीवाल्या इदं न मम । अन्वाधाने कुह्वा उत्कीर्तनं कृतं चेत्तदा कुह्वूमित्यस्य विश्वे देवाः कुहूस्त्रिष्टुप् । नामकरणप्रधानाज्यहोमे विनियोगः । 'ॐ कुहूमह सुभगां० विधेम स्वाहा' इति त्रयोदश्याहुतिर्होतव्या । कुह्वा इदमिति त्यागः ।

 ततोऽङ्गहोमजयाद्युपहोमादि त्रिवृदन्नहोमीयपुण्याहादिवाचनान्तं कृत्वा प्रजापतिः प्रीयतामित्युक्त्वा नामकरणं कुर्यात् ।

 तत्राऽऽदावेकं गुप्तं नामास्मिन्नेव दिने पुण्याहादिवाचनात्प्रागेव शुभे मुहूर्ते मातापितृभ्यां कार्यममुकोऽयमिति । जातकर्मदिने वा । तत्र कुयोगसत्त्वे तु नामकरणदिन एवैतन्नाम कार्यम् । एतच्च नाम मातापितरावेव मौञ्जीबन्धनपर्यन्तं जानीतः । अनन्तरं पुत्रोऽपि जानीते ।

 तत आचारात्तण्डुलान्कांस्याद्यन्यतमे पात्रे प्रसार्य सुवर्णशलाकया श्रीगणपतये नम इति लिखित्वा नामानि लिखेत् । तत्राऽऽदौ शास्त्रान्तरप्राप्तं कुलदेवतानाम व्याडीश्वरयोगेश्वरीभक्त इति ।

 ततः शास्त्रान्तरप्राप्तं जन्मकालिकमासनाम कृष्णोऽनन्त इति यथामासं ततो व्यावहारिकं द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घान्तं विसर्गान्तं वा सविसर्गदीर्घान्तं वा सु इत्युपसर्गपूर्वं वा स्वत्रिपुरुषवाचि देवतावा