पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नामकरणप्रयोगः]
८६३
संस्काररत्नमाला ।
(स्त्रिया नामकरणे विशेषः)
 

 प्यृषिवाचि वा कार्यम् । एतच्च ब्राह्मणस्य शर्मान्तममुकशर्मेति । दीर्घान्तत्वविसर्गान्तत्वपक्षे शर्मान्तता नास्ति ।

 ततो जाताधिकारविहिताणादिप्रत्ययान्तं जन्मनक्षत्रप्रकृतिकं कृत्तिक इत्यादि । एतानि नामानि लिखित्वा श्रीगणपतये नम इति मातुरुत्सङ्गस्थस्य बालस्य दक्षिणे कर्ण उक्त्वा त्वं कुलदेवतानाम्ना व्याडीश्वरयोगेश्वरीभक्तोऽसीति कथयित्वैतन्नाम सुप्रतिष्ठितमस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्वाचयेत् । नाम सुप्रतिष्ठितमस्त्विति विप्राः प्रतिब्रूयुः ।

 ततः कुलदेवतानाम्ना व्याडीश्वरयोगेश्वरीभक्तोऽयं भवतः सर्वान्ब्राह्मणानभिवादयत इत्युक्त्वाऽऽयुष्मान्भवतु व्याडीश्वरयोगेश्वरीभक्त इति विप्रैरुक्तेऽस्मै व्याडीश्वरयागेश्वरीभक्ताय पुण्याहं भवन्तो ब्रुवन्त्विति त्रिर्विप्रान्वाचयेत् । ॐ अस्तु पुण्याहमिति त्रिर्विप्राः । एवमस्मै व्याडीश्वरयोगेश्वरीभक्ताय स्वस्त्ययनं भवन्तो ब्रुवन्तु । अस्मै व्याडीश्वरयोगेश्वरीभक्ताय ऋद्धिं भवन्तो ब्रुवन्तु इति स्वस्त्ययनर्द्धिवचनम् । ॐ अस्तु स्वस्त्ययनम् । ॐ अस्त्वृद्धिरिति प्रतिवचने । मासनाम्ना कृष्णोऽसि । मासनाम्नाऽनन्तोऽसि । मासनाम्ना कृष्णोऽयं भवतः० । मासनाम्नाऽनन्तोऽयं भवतः० । अस्मै कृष्णायानन्तायेत्यादि यथायथं मासनाम्न्यूहः । व्यावहारिकेण नाम्नाऽमुकोऽयं भवत इत्यादि व्यावहारिके नाम्नि । अमुकशर्माऽयं भवत इति शर्मान्तत्वपक्षे । नाक्षत्रेण नाम्ना कृत्तिकोऽसि रौहिणोऽसीत्यादि यथानक्षत्रम् । नाक्षत्रेण नाम्ना कृत्तिकोऽयं भवतः० । रौहिणोऽयं भवतः० इति नक्षत्रनाम्नि । पुण्याहादिवाचनं त्रिष्वपि समानम् ।

 ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय विप्राशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति पुंसो नामकरणम् ।

अथ स्त्रियाः ।

 तत्र विशेषः । अस्याः कुमार्या इति संकल्पवाक्यम् । नान्दीश्राद्धे विकल्पः । करणपक्षे समन्त्रमेव तत् । न होमः । स्वस्तिवाचनान्ते नामानि लिखेत् । भक्तेत्यावन्तं कुलदेवतानाम । वाग्देवी पद्मावती श्रीदेवी सावित्री भूतिः कल्याणी सत्यभामा पुण्यवती रूपवतीन्दुमती चन्द्रवती लक्ष्मीरित्येतानि प्रासनामानि मार्गशीर्षादिक्रमेण । घोषवदादीत्यादिनियमरहितं तद्धितान्तकारान्तं वा त्र्यक्षरं पञ्चाक्षरं सप्ताक्षरं वा नक्षत्रवृक्षपक्ष्यादिनामव्यतिरिक्तं