पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नामकरणम्]
८५३
संस्काररत्नमाला ।

श्रावणे श्रीधरं विद्धि त्दृषीकेशं तु भाद्रके ।
आश्विने पद्मनाभं तु ऊर्जे दामोदरं विदुः" इति ॥

 स्त्रीणां मासनामान्याह बृहस्पतिः--

"वाग्देवी मार्गशीर्षे तु पौषे पद्मावती भवेत् ।
श्रीदेवी माघमासे स्यात्सावित्री फाल्गुने स्मृता ॥
चैत्रमासे भवेद्भूतिः कल्याणी माधवे भवेत् ।

 माधवो वैशाखः ।

सत्यभामा स्मृता ज्येष्ठे शुचौ पुण्यवती भवेत् ।

 शुचिराषाढः ।

नभसि स्याद्रूपवती भाद्र इन्दुमती भवेत् ।

 नभाः श्रावणः । भाद्रो भाद्रपदः ।

चन्द्रवत्याश्विने प्रोक्ता लक्ष्मीः कार्तिक ईरिता ।
एतानि मासनामानि स्युः स्त्रीनामकृतौ ध्रुवम्" इति ॥

 मासाश्चात्र चान्द्राः । तत्रैव चैत्रादिशब्दानां मुख्यत्वात् । ते च शुक्लादिकृष्णान्ता एव । एतादृशचान्द्रमानस्यैव मुख्यत्वाद्ब्राह्मणेन चैतदेव विशेषेणाऽऽदरणीयम् ।

"अमावस्यापरिच्छिन्नो मासः स्याद्ब्राह्मणस्य तु" इतिवचनात् ॥

 सविशेषं व्यावहारिकं नाक्षत्रं च नाम गृह्य उक्तम्--

"पुत्रस्य नाम दध्याद्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तं यत्र वा स्वित्युपसर्गस्तद्धि प्रतिष्ठितमिति विज्ञायते, पिता मातेत्यग्रेऽभिव्याहरेयातां विज्ञायते च मम नाम प्रथमं जातवेद इति द्वे नामनी कुर्याद्विज्ञायते च तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति नक्षत्रनाम द्वितीय स्यादन्यतरद्गृह्य स्यादन्यतरेणैनमामन्त्रयीरन्" इति ।

 पुत्रस्यास्य नाम संज्ञां दध्यात् । कीदृशमित्याकाङ्क्षायां द्व्यक्षरमित्यादि । द्वे अक्षरे परिमाणं यस्य तद्द्व्यक्षरम् । चत्वार्यक्षराणि परिमाणं यस्य तच्चतुरक्षरम् । अक्षरशब्दोऽत्र स्वरेषु वर्तते यथा चतुर्विं शत्यक्षरा गायत्रीति । घोषवत्सर्ववर्गप्रथमद्वितीयेभ्योऽन्यद्व्यञ्जनमादिर्यस्य तद्धोषवदादि । अन्तर्मध्येऽन्तस्था यरलवास्तेषामेको यस्य तदन्तरन्तस्थम् । दीर्घश्चाभिनिष्टानश्च दीर्घाभिनिष्टानौ तावन्ते यस्य तद्दीर्घाभिनिष्टानान्तम् । अभिनिष्टानो विसर्जनीयः । अभिनि