पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नामकरणम्]
८५१
संस्काररत्नमाला ।

कृच्छ्रेष्वाग्रयणं गजेन्द्रपुरतश्छायामघानङ्गयोः ।
तीर्थेन्दुक्षययोश्च पित्र्यमधिके मास्येवमाद्याचरेत्" इति ॥

 तथा पारिजाते बृहस्पतिरपि--

"यस्यां क्रियायां यश्चोक्तः कालो मासदिनैरपि ।
तस्यां न दोषो मूढत्वं वक्रं वा जीवशुक्रयोः" इति ॥

 दिनैरिति तृतीयेत्थंभावे । मासात्मना दिनात्मना वा यो नियतः कालस्तस्मिन्क्रियमाणायां तस्यां मूढत्वादि न दूषणमित्यर्थः । वक्रं वक्रत्वमित्यर्थः ।

 एवमुक्तदिनेषु सर्वनिषेधानादरे प्राप्ते तदपवादमाह गर्गः--

"व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि ।
श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः" इति ॥

 कुर्यादिति शेषः ।

तथा-- "अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्" इति ।

 एतच्च सर्वसंस्कारविषयं द्रष्टव्यम् ।

 नारदः--

"देशकालोपघाताद्यैः कालातिक्रमणं यदि ।
अनस्तगेज्ये च सिते तत्कार्यं चोत्तरायणे" इति ॥

 सर्वदिनेषु विशेषान्तरं बृहस्पतिराह--

"पूर्वाह्णः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः ।
अपराह्णं च रात्रिं च वर्जयेन्नामकर्मणि" इति ॥

 यथोक्तदिने त्वकृतस्य नामकर्मणः कालान्तरे क्रियमाणस्यापेक्षितस्तिथ्यादिनिर्णयः ।

पारिजाते नृसिंहः-- "छिद्राख्याः पर्व नवमीं हित्वा शेषाः शुभावहाः" इति ।

 चतुर्थीषष्ठ्यष्टमीद्वादशीचतुर्दश्यश्छिद्राः । द्वे पर्वणी, नवमी चेत्यष्टौ तिथीर्विहाय शेषास्तिथयो नामकर्मणि शस्ता इत्यर्थः ।

 वसिष्ठः--

"बुधेन्दुसितजीवानामंशके दिवसोदये ।
द्रेष्काणे कालहोरायां नामकर्म प्रशस्यते" इति ॥

 षष्ठ्यन्तस्य सप्तम्यन्तेषु प्रत्येकमन्वयः । अंशको नवांशो राशेः । उदयो लग्नम् । द्रेष्काणो राशेस्तृतीयोंऽशः । कालहोरा वारप्रवृत्तिमारभ्याहोरात्रसंबन्धिनो भागभेदाः । दिवसोदय इत्येकवद्भावः । ततश्चत्वारो वासराः प्रशस्ता इत्यर्थः ।