पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२००
[तर्पणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

एकैक उदकाञ्जलिर्देयः । असंभवे स[१]र्वत्र सव्यान्वारब्धदक्षिणहस्ते[२]नैव वा तर्पणम् । शुचिभूमिपात्रालाभे जलतीर उपविश्योक्तप्रकारेण जल एव तर्पयेत् । तत्र दक्षिणहस्तेन प्रतितर्पणमक्षतानां तण्डुलानां यवानां च ग्रहणम् । सव्यहस्तेन तिलानाम् । जीवत्पितृकेण तु एकपत्न्यन्तानामेव तर्पणं कार्यम् । तर्पणे श्वेता एव तिला ग्राह्याः । प्रकोष्ठपर्यन्तमेव तस्य प्राचीनावीतम् । ततो ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत्त उदकमर्हन्ति तांस्तर्पयामीति प्रथममवसानाञ्जलिं दत्त्वा,

"यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् ।
तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम्" इति द्वितीयमञ्जलिं दत्त्वा,
"येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखि[३]ला यान्तु यश्चास्मत्तोऽम्बु वाञ्छति" ।

 इति तृतीयमञ्जलिं दद्यात् । विस्तरेण तर्पणं कर्तुमसमर्थः प्रपितामहीपर्यन्तं तर्पयित्वा ये पितृवंश्या इत्यनेन यत्र क्वचन संस्थानामित्यनेन येऽबान्धवा इत्यनेन च तर्पयेत् । एतावदपि कर्तुमसमर्थः--

"आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्" इत्यनेनैव तर्पयेत् ॥

 अथवा--आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्वित्यञ्जलित्रयं दद्यात् । जीवत्पितृकस्य नैतत् ।

 ततो द्विराचम्य सूर्यायोदकाञ्जलिं दद्यात् । तत्र मन्त्रः--

"नमो विवस्वते ब्रह्मन्भास्वते विष्णुतेज[४]से ।
जगत्सवित्रे शुचये सवित्रे कर्मदायिने" इति ॥

 दीपोत्सवचतुर्दश्यां दैवधर्मेण पित्र्यधर्मेण वाऽवसानाञ्जल्यन्ते यमतर्पणं कुर्यात् । त[५]द्यथा-- 'यमं तर्पयामि । धर्मराजं तर्पयामि । मृत्युं तर्पयामि । अन्तकं तर्पयामि । वैवस्वतं तर्पयामि । कालं तर्पयामि । सर्वभूतक्षयं तर्पयामि । औदुम्बरं तर्पयामि । दध्नं तर्पयामि । नीलं तर्पयामि । परमेष्ठिनं तर्पयामि । वृकोदरं तर्पयामि । चित्रं तर्पयामि । चित्रगुप्तं तर्पयामि' इति तर्पणं कृत्वा,


  1. क. सव्या ।
  2. क. स्तेन वा ।
  3. क. खिलां या ।
  4. ङ. जसा । ज ।
  5. ङ. तत्रैतानि नामानि--य ।