दिने वा स्ववेदक्रमेण प्रज्ञातप्रदेशमारभ्य पठेत् । सर्वा विकृतीरपि ब्रह्मयज्ञे पठितव्या इति केचित् । नात्र पठितव्या इत्यन्ये । पूर्वं संहितां पठित्वा तस्मिन्नेव दिनेऽधीतसंहिताविकृतिं पठेदि[१]ति परे । ([२] मध्यंदिन उच्चैरध्ययनं ग्रामे मनसा स्वाध्यायमधीयीतेतिविधिबलाद्ग्रामेऽप्यध्ययनमसंभवे, तच्च मनसेति । ) इति ब्रह्मयज्ञप्रयोगः ।
एवं रीत्या ब्रह्मयज्ञं विधाय देवर्षिपितृतर्पणं कुर्यात् । मध्याह्नसंध्योत्तरं वा तर्पणम् । अकृतब्रह्मयज्ञस्तु मध्याह्नसंध्योत्तरं ब्रह्मयज्ञं कृत्वा तर्पणं कुर्यात् । तद्यथा--शुचौ देशे प्राङ्मुख उपविश्य देशकालौ संकीर्त्य देवर्षिपितृतृप्त्यर्थं तर्पणं करिष्य इति संकल्प्य शुद्धदेशे प्रागग्रान्दर्भानास्तीर्य ताम्रपात्रमक्षतसंयुक्तं जलेन पूरयित्वाऽजलौ प्रागग्रान्दर्भान्गृहीत्वा यज्ञोपवीती देवतीर्थेनाऽऽस्तृतेषु प्रागग्रेषु कुशेष्वग्रभागे[३] व्रीहितण्डुलसंयुक्तेन जलेनैकैकाञ्जलिं ब्रह्माद्यङ्गिरोन्तेभ्यो देवेभ्यो दद्यात् । ताम्रादिभाजनान्तरे जले वा तर्पयेत् ।
तत उदङ्मुखो निवी[४]ती कनिष्ठाङ्गुलिद्वयमूलप्रदेशात्मकेन प्राजापत्येन तीर्थेनोदगग्रेष्वास्तृतेषु कुशेषु मध्यभागे यवमिश्रितजलेन विश्वामित्रादीतिहासपुराणान्तेभ्यो द्वौ द्वावञ्जली दद्यात् । प्रत्यञ्जलि नाममन्त्रावृत्तिः । सकृन्नाम्नाऽपरस्तूष्णीमित्येवं वा । अ[५]थ काण्डर्षितर्पणमपि सति संभवे कार्यम् । तद्यथा--प्रजापतिं काण्डर्षिं तर्पयामि । सोमं काण्डर्षिं त० । अग्निं काण्डर्षिं त० । विश्वान्देवान्काण्डर्षींस्तर्पयामि । स्वयंभुवं काण्डर्षिं तर्पयामि । अरुणान्काण्डर्षींस्तर्पयामि । सांहितीर्देवता उपनिषदस्तर्पयामि । वारुणीर्देवता उपनिषदस्तर्पयामि । याज्ञिकीर्देवता उपनिषदस्तर्पयामि । सदसस्पतिं तर्पयामीति ।
ततो न्यञ्चितसव्यजानुर्दक्षिणामुखः प्राचीनावीती पितृतीर्थेन दक्षिणाग्रेष्वास्तृतेषु कुशेषु मूलभागे कृष्णतिलमिश्रितं कृष्णतिलाभावे श्वेततिलमिश्रितं जलमादाय तेन वैशम्पायनाद्येकपत्न्यन्तेभ्यस्त्रींस्त्रीनञ्जलीन्दद्यात् । प्रत्यञ्जल्यावृत्तिः । सकृन्नाम्ना द्विस्तूष्णीमित्येवं वा ।
ततः पित्रादीन्सर्वान्पितॄंस्तर्पयेत् । तत्र सापत्नमातृव्यतिरिक्तैकोद्दिष्टस्त्रीभ्य