पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणप्रयोगः]
१२०१
संस्काररत्नमाला ।

"यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।

 वृकोदराय चित्राय चित्रगुप्ताय वै[१] नमः" इति नमस्कुर्यात् ।

 माघशुक्लाष्टम्यां भीष्मतर्पणम् । अवसानाञ्जल्यन्ते प्राचीनावीती--

"वैयाघ्रपादगोत्राय सांकृत्यप्रवराय च ।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम् ॥
अपुत्राय ददाम्येतज्जलं भीष्माय वर्मणे" ॥

 इतिमन्त्रेण भीष्मतर्पणं कुर्यात् । एतच्च ब्राह्मणस्य न भवतीति मदनपारिजातः । तिलतर्पणे निषिद्धकालास्तत्प्रतिप्रसवाय पूर्वोदाहृतस्मृतिभ्यो द्रष्टव्या इति सर्वं शिवम् ।

इति संस्काररत्नमालायामुपाकर्मोत्सर्जनवेदपारायणनित्यस्नानब्रह्मय-
ज्ञतर्पणप्रयोगः ॥

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे द्वादशं प्रकरणम् ॥ १२ ॥


१५१
 
  1. च. ते