पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नामकरणम्]
८४९
संस्काररत्नमाला ।

स्नानपरः । नामकरणस्य सूतकान्तकर्तव्यताविधानेन मध्य एतेषां नक्षत्रादीनामवकाशासंभवात् ।

अथ नामकरणम् ।

 तच्च सूतकनिवृत्तौ सत्यां कार्यम् ।

"सूतकान्ते नामकर्म विधेयं स्वकुलोचितम्" इति नारदोक्तेः ।

"आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते" इति शङ्खोक्तेश्च ।

 सा च सूतकनिवृत्तिर्द्वादशेऽहन्येव । 'द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति' इतिसूत्रेण स्नानागारशुद्ध्यादिकं द्वादशेऽह्नि विदधताऽऽचार्येणैकादशेऽह्न्यप्याशौचसत्त्वबोधनात् । एतच्च मातापुत्रयोः पितुस्तत्कुलीनानां च । सूत्रे मातृग्रहणं मातुरेवाशौचपक्षमाश्रित्येति मातृदत्त आह । वैजयन्तीकारकारिकाकारादयश्चाप्येवमाहुः । वस्तुतस्तु मातापुत्रयोरेव न तु पित्रादीनाम् । सर्वस्मृत्यविरोधेन व्याख्यानसंभवे तद्विरुद्धस्यैकादशेऽह्नि पितुरप्याशौचं तत्कुलीनानां चेत्येतादृशव्याख्यानस्यायुक्तत्वात् । न चैवं मातुरप्येकादशेऽह्न्याशौचसत्त्वबोधनं सर्वस्मृतिविरुद्धमिति वाच्यम् । सर्वस्मृतिविरुद्धस्यापि मातापुत्रयोरेकादशेऽह्न्याशौचस्य 'द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति' इतिस्पष्टार्थकसूत्रप्रतिपादितस्नानागारशुद्धिविधानबललभ्यत्वात् । न च मातापुत्रयोरपि बहुस्मृत्यनुरोधेनैकादश्यामेवाशौचनिवृत्तिः स्नानं तु द्वादश्यां पुनरदृष्टार्थं कर्तव्यमिति वाच्यम् । शुद्धिरूपे दृष्टे संभवत्यदृष्टकल्पनायोगात् । 'स्नातायां नाम दधाति' इत्यापस्तम्बसूत्राद्दृष्टार्थत्वस्यैव प्रतीतेश्च । न च दृष्टार्थकस्य स्नानस्य स्मृतित एव सिद्धत्वाद्विधेर्वैयर्थ्यमिति वाच्यम् । तस्य द्वादशीविधायकत्वेन वैयर्थ्याभावात् । न चैवमेकादेशेऽह्नि पितुराशौचस्य निवृत्तत्वेन कर्मण्यधिकृतत्वात्तत्रैव नामकरणानुष्ठानं युक्तमिति वाच्यम् । पितुरधिकारित्वेऽपि सहाधिकारिण्या भार्यायाः संस्कार्यस्य चाशुचित्वेन नामकरणस्यैकादशेऽहन्यनुष्ठानस्यायुक्तत्वात् । जातकर्मणस्तु तथात्वेऽपि निमित्तप्राबल्यादनुष्ठानम् । अतः समन्त्रकस्नानसंपूर्णसंध्यावन्दनादीन्येकादशेऽह्नि पित्रादिभिः कर्तव्यान्येवेति युक्तं प्रतिभाति । स्नात इत्यत्रान्तर्भावितो णिच् । तेन स्नापयत इत्यर्थः । स्त्रियाविति शेषः । कुर्वन्तीत्यत्र परिकर्मिणः स्त्रियो वेति शेषः । 'द्वादश्यां मातापुत्रौ स्नातः शुच्यगारं कुर्वन्ति' इति सर्ववर्णप्रसूतिकासाधारणम् । सूत्रकृता विशेषानुपदेशात् । अतः क्षत्रियादिप्रसूतिकानामपि द्वादश्यामेव शुद्धिः ।


१०७