पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणविधिः]
११८७
संस्काररत्नमाला ।

 ([१] कौर्मे तु--

"अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षींस्तर्पयेद्विद्वानुदकाञ्जलिभिः पितॄन्"

 इति सव्यपाण्यन्वारब्धदक्षिणपाणिना तर्पणमुक्तम् । तेन विकल्पः ।

तथा च वसिष्ठः--

"एकेन वाऽथ हस्तेन देवर्षिपितृतर्पणम् ।
सव्यान्वारब्धेनोभाभ्यां वाऽपि कुर्यात्सदैव तु" इति ।

 न क्रुद्धो नैकपाणिना' इति गोभिलोक्तनिषेधस्त्वनन्वारब्धपाणिविषयः । एकहस्तेन तर्पणमाश्वलायनविषयम् । 'अनादेशे दक्षिणं प्रतीयात्' इति परिभाषासूत्रात् । अञ्जलिस्त्वन्यविषय इति केचित् । अन्ये तु--अनादेशे दक्षिणं प्रतीयादिति सूत्रोक्तकर्मसु हस्तकरणेषु हस्तानादेशे दक्षिणहस्तः करणत्वेन ज्ञेयः । तेन तर्पणे फलार्थविहितसुवर्णखड्गपात्रादिकरणत्वे हस्तस्याकरणा(णत्वा)न्न दक्षिणहस्तनियम इति तद्विषयकोऽप्यञ्जलिविधिः । एवं स्नानाङ्गश्राद्धाङ्गतर्पणविषयोऽपि । हस्तकरणकः(क) ब्रह्मयज्ञोत्तरतर्पणं तु सव्यान्वारब्धदक्षिणहस्तेनैवेत्याहुः ।) एतच्च तर्पणं स्थलस्थो न जले कुर्यात् ।

 तथा च गोभिलः--

"नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत्तोयं यन्न भूमौ प्रदीयते" इति ।

 अतः स्थलस्थो भूमावेव तर्पणं कुर्यान्न जलादौ ।

तथा च विष्णुः--

"स्थले स्थितो जले यस्तु प्रयच्छेदुदकं नरः ।
नोपतिष्ठति तद्वारि पितॄणां तन्निरर्थकम्" इति[२]

 स्मृत्यन्तरे--

"आर्द्रवासा देवर्षिपितृतर्पणमम्भस्येव
कुर्यात्परिहितवासाश्चेत्तीर्थमुतीर्य" इति ।

 अत्र विशेषमाह हारीतः--

"वसित्वा वसनं शुष्कं स्थले विस्तीर्णबर्हिषि ।
केशभस्मतुषाङ्गारकण्टकास्थिसमाकुलम् ।
भवेन्महीतलं यस्माद्बर्हिषाऽऽस्तरणं ततः ।
पात्राद्वा जलमादाय शुभे पात्रान्तरे क्षिपेत् ।
जलपूर्णेऽपि वा गर्ते न स्थले तु विबर्हिषि" इति ।

 यत्तु कार्ष्णाजिनिनोक्तम् 'देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम्' इति, तदशुचिस्थलविषयम् ।


  1. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  2. ङ. ति । अ ।