पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८८
[तर्पणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

तदाह विष्णुः--

"यत्राशुचि स्थलं चेत्स्यादुदके देवताः पितॄन् ।
तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम्" इति ।

 पात्रे विशेषमाह पितामहः--

"हेमरूप्यमयं पात्रं ताम्रकांस्यसमुद्भवम् ।
पितॄणां तर्पणे पात्रं मृन्मयं तु परित्यजेत्" इति ।

मरीचिः--

"सौवर्णेन च पात्रेण ताम्ररौप्यमयेन(ण) वा ।
औदुम्बरेण खड्गेन पितॄणां दत्तमक्षयम्" इति ।

 ( [१] अत्र तृतीयानिर्देशात्करणपात्राणि, पितामहवाक्ये त्वधिकरणपात्राणीति जीर्णाः । पितामहवाक्यस्य मरीचिवाक्येनोपसंहारादेतेषां करणत्वमेव । अधिकरणपात्रस्य निषेधः । अत्र स्वर्णादिपात्राणां निरपेक्षकरणत्वात् । इति नवीनाः । ब्राह्मादितीर्थबाध इति मैथिलाः । समुच्चय इति केचित् ।)

 रिक्तहस्तेन न कुर्यादित्याह स एव--

"विना रौप्यसुवर्णेन विना ताम्रतिलैस्तथा ।
विना मन्त्रैश्च दर्भैश्च पितॄणां नोपतिष्ठते" इति ।

 अन्यच्च स एव हेमाद्रौ--

"हिमेन सह यद्दत्तं क्षीरेण मधुनाऽथवा ।
तदप्यक्षय्यतां याति पितॄणां तु तिलोदकम्" इति ।

 निहितं(हिमं) कर्पूरं चन्दनं वेति हेमाद्रिः ।

स्मृत्यन्तरे--

"खड्गमौक्तिकहस्तेन कर्तव्यं पितृतर्पणम् ।
मणिकाञ्चनदर्भैर्वा न शुद्धेन कदाचन" इति ।

 ([२] मणिः सौवर्णो न तु नीलादिः ।

"नीलगोमेदवज्रादिहस्तो नैव तु तर्पणम् ।
प्रकुर्वीत द्विजो धीमानन्यथा पापभाग्भवेत्" इति प्रयोगसारेऽत्र्युक्तेः ।


ङ. ति । स्म ।

  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके--'अत्र मणिः सौवर्ण एव ग्राह्यः । वज्रादिमणीनां तर्पणे निषिद्धत्वात् । तथा च स्मृतिमञ्जर्यां सत्यव्रतः- खड्गमौक्तिकसौवर्णमणिकाञ्चनदर्भकाः । हस्ते धार्यास्तर्पणे तु हीरकादि न धारयेत् । हीरकादियुतो यस्तु कुर्वीत यदि तर्पणम् । क्रुद्धाः स्युः पितरस्तस्य शापं दत्त्वा व्रजन्ति हि' इति । तर्पणे कण्ठे मालाधारणनिषेध उक्तो भरद्वाजेन 'कण्ठे माला यस्तु धृत्वा कुर्वीत यदि तर्पणम् । निराशाः पितरो यान्ति शापदास्तस्य सर्वदा' इति' इति ग्रन्थो वर्तते ।