पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८६
[तर्पणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

 उशना--

"द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्" इति ।

 ब्रह्मपुराणे--

"कुशाग्रेषु सुरांस्तर्पेन्मनुष्यांश्चैव मध्यतः ।
पितॄंस्तु कशमूलेषु तर्पयेच्च यथाविधि" इति ।

 आग्नेयपुराणे--

"सव्येन देवकार्याणि वामेन पितृतर्पणम् ।
निवीतेन मनुष्याणां तर्पणं संविधीयते" इति ।

 सव्येनोपवीतेन । वामेन प्राचीनावीतेन । तथा च शङ्खलिखितौ--

"उभाभ्यामपि हस्ताभ्यां प्राङ्मुखो यज्ञोपवीती
प्रागग्रैः कुशैर्देवतातर्पणं देवतीर्थेन कुर्यात्" इति ।

 विष्णुरपि--

"ततः कृत्वा निवीतं तु यज्ञसत्रमुदङ्मुखः ।
प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत्पृथक्" इति ।

 मनुष्यानृषीन् । ([१]कनिष्ठाङ्गुलेर्मूलप्रदेशः प्राजापत्यं तीर्थम् । अञ्जलेस्तर्पणकरणत्वकल्पे कनिष्ठाद्वयमूलप्रदेशः प्राजापत्यं तीर्थम् । स्वल्पाङ्गुल्योर्मूले कार्यमिति कोशे द्विवचननिर्देशात् ।

 पुलस्त्यः--

"अन्वाच्य दक्षिणं जानुं प्रागग्रैस्तु कुशैर्द्विजः ।
देवान्संतर्पयेद्भक्त्या ध्यायंस्तद्गतमानसः" इति ।

 गोभिलः--

"देवान्संतर्पयन्प्राज्ञो दक्षिणं जानु भूतले ।
निदध्यादथ वामं तु पितॄनपि विचक्षणः ।
मनुष्यतर्पणं कुर्वन्न किंचिज्जानु पातयेत्" ) [इति] ।

बौधायनः--

"अथ दक्षिणामुखः प्राचीनावीती
पितॄन्स्वधा नमस्तर्पयामि" इत्यादि

[२]स्तु--

"उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छति ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः" ।

इति व्याघ्र[३]पादुक्तो निषेधः [स] श्राद्धसमयार्घ्यादिविषयः ।

अत एव कार्ष्णाजिनिः--

"श्राद्धे विवाहकाले च पाणिनैकेन दीयते ।
तर्पणे तूभयेनैव विधिरेष पुरातनः" इति ।


  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  2. ङ. यत्तु ।
  3. ङ. घ्रवचनं तच्छ्राद्धादिविषयम् । अ ।