पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणविधिः]
११८५
संस्काररत्नमाला ।

दीनां तर्पणम् । स्त्री भार्या । तनयादीत्यादिपदेन पौत्रादिग्रहणम् । भ्रातृशब्दस्य तातजननीशब्दयोरप्यन्वयः । तेन तातभ्रातरो जननीभ्रातरः स्वभ्रातर इत्यर्थो भवति । तत्स्त्रियस्तेषां तातभ्रातृजननीभ्रातृस्वभ्रातॄणां स्त्रिय इत्यर्थः । सस्त्रिय इतिपाठे स्त्रीसहिता इत्यर्थः । स्त्री[१]ति स्त्र्यपत्ययोरुपलक्षणम् । तेन पितृव्यं सपत्नीकं सापत्यं स्वधा नमस्तर्पयामीति प्रयोगः । एवं मातुलभ्रात्रोरपि । ताताम्बात्मभगिनी(नि) तातभगिनी, अम्बाभगिनी, आत्मभगिनी, तद्भर्तारस्तदपत्यानि च । तातभगिनीं सभर्तृकां सापत्यां स्वधा नमस्तर्पयामीति प्रयोगः । एवं मातृभगिन्यात्मभगिन्योरपि । जायापिता श्वशुरः । अन्यत्स्पष्टम् ।

अथ तर्पणविधिः ।

तत्र वसिष्ठः--

"ऋक्सामाथर्ववेदोक्ताञ्जप्यान्मन्त्रान्यजूंषि च ।
जप्त्वा चैवं ततः कुर्याद्देवर्षिपितृतर्पणम्" इति ॥

बृहस्पतिरपि--

"ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्यां चाऽऽध्यात्मिकीं जपेत् ।
जप्त्वाऽथ प्रणवं चापि ततस्तर्पणमाचरेत्" इति ॥

विष्णुपुराणेऽपि--

"शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ॥
तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः" इति ॥

 स्नातः शुचिवस्त्रधरः इत्यन्वयः

 व्यासः--

"एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस्त्रींस्त्रीन्स्त्रियश्चैकैकमञ्जलिम्" इति ॥

 सनकादय इति स्वस्वशाखोक्तर्ष्युषलक्षणम् । स्त्रीष्वपि विशेषः स्मृत्यन्तरे--

"मातृमुख्याश्च यास्तिस्रस्तासामप्यञ्जलित्रयम् ।
दद्यादेकैकमन्यासां स्त्रीणां चैवाञ्जलिं बुधः" इति ।

 मातामह्यादीनामप्यञ्जलित्रयं देयम् । तथा च स्मृतिः--

"मातृमुख्याश्च यास्तिस्रो मातामह्यादयश्च याः ।
अञ्जलित्रयमेतासामन्यत्रैकैकमञ्जलिम्" इति ।

आग्नेयपुराणे--

"प्रागग्रेषु सुरांस्तर्पेन्मनुष्यांश्चैव मध्यतः ॥
पितॄंस्तु दक्षिणाग्रेषु दद्याद्द्वित्रिजलाञ्जलीन्" इति ।

 अत्राञ्जलिसंख्या यथाशाखं व्यवतिष्ठते । यत्र संख्यानियमो न श्रूयते तत्र विकल्पः ।


१४९
 
  1. ङ. स्त्रीत्यपत्योप ।