पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८४
[वेदपारायणोत्सर्जनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( नित्यस्नानतर्पणे )
 

नान्दीश्राद्धं[१] च कुर्यात् । तत ऋत्विक्पूर्वोक्तरीत्या स्नानविधिं देवर्षिपितृपूजनं च कुर्यात् । अत्र परस्परं दर्भप्रदानं नास्त्यन्यस्यैवाभावात् । बहुषु पारायणेषु यदि बहवः कर्तारस्तदाऽपि न दर्भदानम् । भिन्नकर्मसंबद्धेष्वृत्विक्षु संप्रदानत्वायोगात् । ततोऽपरेण वेदिमग्निमुपसमाधायेत्यादि प्राणायामान्तं कृत्वा वेदपारायणोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्हुत्वा जयोपहोमादि सर्वं होमशेषं समापयेत् । नैवात्र त्रिवृदन्नहोमः । दूर्वारोपणमुदधावूर्मिष्पादनमाजिधावनं च नास्ति । ततो ब्रह्माणं संपूज्य विसर्जयेत् । ततो यजमान ऋत्विग्द्वारा पारायण ऋत्विजे सुवर्णगोदानवस्त्ररथाद्यन्यतमां यथाविभवं दक्षिणां दत्त्वाऽपूपैः सक्तुभिरोदनेनान्यैश्च व्यञ्जनैर्ब्राह्मणान्पूजनपूर्वकं भोजयित्वा भूयसीं दक्षिणां दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा लौकिकाग्नौ होमश्चेत्तमग्निं गच्छ गच्छेति विसृज्य प्रमादादिति विष्णुं स्मरेत् । इति वेदपारायणोत्सर्जनप्रयोगः ।

अथ नित्यस्नानतर्पणे ।

तत्र सूत्रम्--"नित्यमेवं स्नात्वाऽद्भिर्देवानृषीन्पितॄंश्च तर्पयन्ति तर्पयन्ति" इति ।

 नित्यं सदा, एवमुत्सर्जनोक्तस्नानविधिना स्नात्वाऽद्भिस्तत्तत्तीर्थैर्यज्ञोपवीतित्वादिभिस्तत्तद्धर्मैर्देवानृषीन्पितॄंश्च प्रातःस्नानोत्तरं मध्याह्नस्नानोत्तरं च तर्पयन्तीत्यर्थः । एवं ब्रह्मयज्ञादनन्तरं तत्राकृतं चेन्मध्याह्नसंध्योत्तरं वा । तर्पयन्तीतिद्विरुक्तिः प्रश्नसमाप्तिद्योतनाय ।

अथ तर्पणीयपितरः ।

"ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं
सस्त्रि स्त्री तनयादि तातजननीस्वभ्रातरः सस्त्रि(रस्तत्स्त्रि)यः ॥
ताताम्बात्मभगिन्यपत्यधवयुग्जायापिता सद्गुरुः
शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे" इति ॥

 तातत्रितयं कर्तुः पितृपितामहप्रपितामहाः । अम्बात्रितयं मातृपितामहीप्रपितामह्यः[२] । सपत्नजननी सपत्नमाता । मातामहादित्रयं स्पष्टम् । सस्त्रि मातामहीमातुःपितामहीमातुःप्रपितामहीसहितम् । तेनात्र मातामहं सपत्नीकं स्वधा नमस्तर्पयामीत्यादिप्रयोगो द्रष्टव्यः । तत्स्त्रीतिपाठे पृथगेव मातामह्या


  1. ङ. द्धं यजमान एव कु ।
  2. क. च. ह्यः । माताम ।