पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनप्रयोगः]
११७१
संस्काररत्नमाला ।

शिरसि । तत्पुरुषाय नम इति मुखे । अघोराय नम इति हृदये । वामदेवाय नम इति गुह्ये । सद्योजाताय नम इति पादयोः, इत्येवंप्रकारेण भस्मलेपनम् । ततोऽग्निरिति भस्म । वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्व ह वा इदं भस्म । मा नस्तोक इत्यस्याग्नी रुद्रो जगती । सर्वाङ्गे भस्मलेपने विनियोगः । 'मा नस्तोके तनये विधेम ते' इति शिरःप्रभृत्यङ्गानि भस्मना विलिप्य स्नात्वाऽऽचामेत् । पुनर्जलप्रान्त उपविश्य, गायत्र्या विश्वामित्र ऋषिः सविता देवता गायत्री छन्दः । गोमयादाने विनियोगः । 'तत्सवितु० यात्' इति तीरे स्थापितं गोमयमादाय, गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा श्रीरनुष्टुप् । अङ्गेषु गोमयलिम्प(लेप)ने विनियोगः । 'गन्धद्वारां दुराधर्षां श्रियम्' इति शिरःप्रभृत्यङ्गानि विलिप्य, 'अग्रमग्रं च० सर्वदा' इति पुनस्तथैव विलिप्य स्नात्वाऽऽचामेत् । पुनर्जलप्रान्त उपविश्य, अश्वक्रान्त इत्यस्य याज्ञि० भूर्वा भूमिरनुष्टुप् । भूमिर्धेनुरित्यस्य याज्ञि० भूर्वा भूमिरेकपदा जगती । भूम्यभिमन्त्रणे विनियोगः । 'अश्वक्रान्ते० लोकधारिणी' इति द्वाभ्यां भूमिमभिमन्त्र्य, सहस्रपरमेत्यस्य याज्ञि० भूर्वा दूर्वाऽनुष्टुप् । दूर्वाभिमन्त्रणे विनियोगः ।'सहस्रपर० शिनी' इति दूर्वामभिमन्त्र्य, उद्धृताऽसीत्यस्य याज्ञि० भूर्वा मृत्तिकाऽनुष्टुप् । मृत्तिकाग्रहणे विनियोगः । 'उद्धृताऽसि० हुता' [इति] अभिमन्त्रितप्रदेशान्मृत्तिकां गृहीत्वा, काण्डात्काण्डादिति द्वयोर्याज्ञि० भूर्वा दूर्वाऽनुष्टुप् । दूर्वादाने विनियोगः । 'काण्डात्काण्डात्प्ररोहन्ती० पा वयम्' इति द्वाभ्यां दूर्वामादाय, मृत्तिके हनेत्यस्य याज्ञि० भूर्वा मृत्तिकाऽनुष्टुप् । मृत्तिकायां दूर्वाप्रतिष्ठापने विनियोगः । 'मृत्तिके हन मे० परमां गतिम्' इति दूर्वा मृत्तिकायां प्रतिष्ठाप्य, यत इन्द्रेत्यस्य याज्ञि० भूर्वेन्द्रो बृहती । स्वस्तिदेत्यस्य याज्ञिक्यो० भूर्वेन्द्रोऽनुष्टुप् । स्वस्ति न इत्यस्य याज्ञिक्यो० भूर्वेन्द्रस्त्रिष्टुप् । त्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । परं मृत्यो, इत्यस्य विश्वे देवा मृत्युस्त्रिष्टुप् । स्योना पृथिवीत्यत्य याज्ञिक्यो० भूर्वा पृथिवी गायत्री । प्राच्यादिचतुर्दिक्षूर्ध्वमधश्च क्रमेण मृत्तिकाप्रक्षेपणे विनियोगः । यत इन्द्र० इति प्राच्यां मृत्तिकां प्रक्षिपति । स्वस्तिदा इति दक्षिणस्याम् । स्वस्ति न इन्द्रो० इति प्रतीच्याम् । त्रातारमि० इत्युत्तरस्याम् । परं मृत्यो० इत्यूर्ध्वम् । स्योना पृथि० इत्यधः । गन्धद्वारामित्यस्य याज्ञिक्यो० भूर्वा श्रीरनुष्टुप् । मृत्तिकाग्रहणे विनियोगः । 'गन्धद्वारां० श्रियम्' इत्यभिमन्त्रितप्रदेशादन्यां मृत्तिकां गृहीत्वा, उदु त्यमित्यस्य सोमः सूर्यो गायत्री । सूर्याय मृत्तिकाप्रदर्शने विनियोगः । 'उदु त्यं जा० सूर्यम्' इति सूर्याय गृहीतां मृत्तिकां प्रदर्शयित्वा(र्श्य), श्रीर्मे भजत्वित्यस्य याज्ञिक्यो० भूर्वा