पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७२
[उत्सर्जनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

श्रीर्यजुः । शिरसि प्रदक्षिणं मृत्तिकालेपने विनियोगः । 'श्रीर्मे भजतु | अलक्ष्मीर्मे नश्यतु' इति शिरसि प्रदक्षिणं मृत्तिकां विलिप्य, सहस्रशीर्षेत्यस्य प्रजापतिः स्वयंभूर्वा पुरुषो नारायणोऽनुष्टुप् । विष्णुमुखा इत्यस्य याज्ञिक्यो० भूर्वा देवा यजुः । महा इन्द्र इत्यस्य याज्ञिक्यो० भूर्वेन्द्रो बृहती । सोमानमित्यस्य याज्ञिक्यो० भूर्वा ब्रह्मणस्पतिर्गायत्री । शरीरमित्यस्य याज्ञिक्यो० भूर्वाऽऽत्मा यजुः । नाभिर्म इत्यस्य विश्वे देवा नाभिर्द्विपदा गायत्री । क्रमेण शिरोमुखबाहुकुक्षिहृदयनाभिषु मृत्तिकालेपने विनियोगः । आपान्तमन्युरित्यस्य याज्ञिक्यो० भूर्वा सोमस्त्रिष्टुप् । ब्रह्म जज्ञानमित्यस्य याज्ञिक्यो० भूर्वा ब्रह्म त्रिष्टुप् । कट्योर्मृत्तिकालेपने विनियोगः । विष्णो रराटमित्यस्य सोमो रराटी यजुः । वरुणस्य स्कम्भनमसीत्यस्य सोमो वरुणो यजुः । आनन्दनन्दावित्यस्य विश्वे देवा आत्मा द्विपदा गायत्री । ऊरुवोरोज इत्यस्याग्निरात्मा यजुः । जङ्घाभ्यामित्यस्य विश्वे देवा आत्मा द्विपदा गायत्री । चरणं पवित्रमित्यस्य याज्ञिक्यो० भूर्वा चरणात्मा त्रिष्टुप् । क्रमेण पृष्ठमेढ्राण्डोरुजङ्घाचरणेषु मृत्तिकालेपने विनियोगः । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । त्रीणि पदेत्यस्य विश्वे देवा विष्णुर्गायत्री । पादतलयोर्मृत्तिकालेपने विनियोगः । सहस्रशीर्षा० [इति] शिरसि । विष्णुमुखा० [इति] मुखे । महा इन्द्रो० इति बाह्वोर्मन्त्रावृत्त्या । सोमान० इति कुक्ष्योर्मन्त्रावृत्त्या । शरीरं य० इति शरीरे, हृदय इत्यर्थः । नाभिर्मे० सत्, इति नाभ्याम् । आपान्तमन्यु० ब्रह्म जज्ञानं० इति[१] द्वाभ्यां कट्योः । द्वयोरावृत्तिः । विष्णो रराटमसीति पृष्ठे । वरुणस्य स्कम्भनमसीति मेढ्रे । आनन्दनन्दावा० पस इत्याण्डयोः । ऊरुवोरोज इत्यूर्वोः । 'जङ्घाभ्यां प० ष्ठितः । [इति] जङ्घयोः । एतेषु सकृदेव मन्त्रः । द्विवचनलिङ्गात् । चरणं पवित्रमिति चरणयोर्मन्त्रावृत्त्या । इदं विष्णुस्त्रीणि पदेति द्वाभ्यां पादतलयोः । द्वयोरावृत्तिः । सजोषा इत्यस्य स्वयंभूरिन्द्रस्त्रिष्टुप् । दूर्वासहितस्य शेषस्य शिरसि निधाने विनियोगः । सजोषा इन्द्र० इति दूर्वासहितं शेषं शिरसि निदध्यात् । ([२] बौधायनोक्तरीत्या कर्तुमसंभवे--अश्वकान्त इति भूमिमभिमन्त्र्य भूमिर्धेनुरिति लोष्टमादाय सहस्रपरमेति दूर्वामभिमन्त्र्य काण्डात्काण्डादिति दूर्वामादाय या शतेनेति दूर्वां मृदि प्रतिष्ठाप्य मृत्तिके हन मे पापमिति मृदमभिमन्त्र्य यत इन्द्र भयामहे० १ स्वस्तिदा वि०२ स्वस्ति न इन्द्रो० ३ आपान्तमन्यु० ४ ब्रह्म जज्ञानं० ५ स्योना पृथिवि


  1. क. ति क ।
  2. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।