पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनम्]
११६९
संस्काररत्नमाला ।

वचनात्सर्वेषां कर्तृत्वम् । प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणा स्तर्पयन्ति । उत्सर्गदेशात्प्रत्येत्याकृत्वैवान्नहोमं ग्रामं प्रविश्यापूपादिभिर्ब्राह्मणांस्तर्पयन्तीत्यर्थः । अपूपैः सक्तुभिरोदनेनेति ब्राह्मणा स्तर्पयन्तीतिगुरुसूत्रकरणादेवं ज्ञायते नास्त्यत्रान्नहोम इति । यद्यत्रान्नहोम इष्टः स्याद्ब्राह्मणानन्नेन परिविष्येत्येव लाघवाद्ब्रूयात् । वृत्तिकृताऽपि तत आजिसरणात्प्रत्येत्यान्नहोमान्हुत्वाऽपूपादिभिर्ब्राह्मणांस्तर्पयन्तीत्येतस्मिन्व्याख्याने गुरुसूत्रकरणवैयर्थ्यापरिहाररूपापरितोषादेव 'अथवोत्सर्गदेशात्प्रत्येत्याकृत्वैवान्नहोमं ग्रामं प्रविश्यापूपादिभिर्ब्राह्मणांस्तर्पयन्ति' इत्येवं द्वितीयं व्याख्यानं कृतम् । ब्राह्मणा श्च तर्पयन्तीतिपाठे तु चकारः पूजनसमुच्चयार्थो ज्ञेयः । अत्रापूपादिग्रहणं परिवेषणक्रमार्थम् । अत्र भस्मगोमयमृत्तिकास्नानान्यपि सति संभवे कार्याणि ।

"संप्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये ।
स्नानं कुर्वीत मतिमाञ्छ्रुतिस्मृतिविधानतः"

 इति भविष्यवचनस्य श्रुतिस्मृतिविधानत इति भस्मगोमयमृत्तिकास्नानप्राप्त्यर्थमिति पृथ्वीचन्द्रोदयेन व्याख्यानादाचाराच्च । यद्यप्येतस्माद्वचनादुपाकर्मार्थत्वमेतेषां प्रतीयते तथाऽपि सूत्र उत्सर्जन एव स्नानविधानात्तदर्थकत्वमेव । श्रावणस्यान्त इति तु, उपाकर्मदिनानुष्ठानाभिप्रायेण आचारश्चैवमेव । उपाकर्मदिन उत्सर्जनक्रिया तु हेमाद्रौ खादिरगृह्य उक्ता--

"पुष्ये तूत्सर्जनं कुर्यादुपाकर्मदिनेऽथ वा" इति ।

 कलौ पुरुषान्दुर्मेधसः पौष उत्सर्जनं कर्तुमशक्तांश्च मन्यमाना उपाकर्मदिनानुष्ठानमेवाऽऽश्रयन्तीदानीं शिष्टाः । ([१] उत्सर्जनस्यानावश्यकतोक्ता स्मृत्यर्थसारे । तत्र मूलं चिन्त्यम् ।) एतानि स्नानान्युत्सर्जनाङ्गभूतानीति केचित् । बहिर्भूतान्युत्सर्जनकर्माधिकारार्थानीत्यन्ये । आद्यपक्षे--उत्सर्जनसंकल्पोत्तरं कार्याणि । नात्र संकल्पः । क[रो]तिधातुसमभिव्याहाराभावात् । अन्त्यपक्षे तूत्सर्जनकर्माधिकारार्थं भस्मगोमयमृत्तिकास्नानानि करिष्य इतिसंकल्पपूर्वकं कर्मसंकल्पात्पूर्वमेव कार्याणि । नात्रापि नदीरजोदोषः । उपाकर्मणि चोत्सर्ग इत्युपाकर्मप्रकरणोदाहृतवचनात् । एतदुत्सर्जनाख्यं कर्म किंचिदध्ययनवतोऽप्यावश्यकम् । अकृतोपाकृतिर्विप्र इत्युपाकरणप्रकरणोदाहृतसंग्रहवचनात् । उपाकरणग्रहणमुत्सर्जनस्याप्युपलक्षणम् ।


१४७
 
  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।