११४८
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
इति वचनाभ्यां प्रथमोपाकरणादावपि निषेधे सिद्धे पुनः प्रथमोपाकरणनिषेधादिदं ज्ञायते । मले प्रोष्टपदे मास ओषधिप्रादुर्भावः, अथ च शुद्धप्रोष्ठपद्यामर्धरात्रादर्वाग्ग्रहणादिसत्त्वं तदा मलमासेऽपि द्वितीयाद्युपाकर्मकर्तव्य[१]ताऽस्तीति । एवमुत्सर्जनेऽपि । ([२] गुरुभार्गवयोर्मौढ्य इति वचनं संग्रहनाम्ना पठित्वा, एतद्वचनप्रतिपाद्यप्रथमोपाकरणविषयनिषेधरूपार्थस्याऽऽर्षवचनानुपलम्भहेतुना निर्मूलत्वं परिकल्प्य शुद्धकाललाभे द्वितीयादिप्रयोगेऽपि गुरुशुक्रास्तवक्रातिचारादिदोषान्वर्जयन्ति ।)
सिंहकर्कटयोर्मध्ये नद्यां स्नाने दोषमाहात्रिः--
"सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।
([३] न स्नानादीनि कर्माणि तासु कुर्वीत मानवः" इति ।
|
महानदीषु भविष्य उक्तम्--
"आदौ तु कर्कटे देवि महानद्यो रजस्वलाः ।)
त्रिदिनं तु चतुर्थेऽह्नि शुद्धाः स्युर्जाह्नवी सदा" इति ॥
|
जाह्नवी सर्वदा शुद्धेत्यर्थः ।
महानद्यस्तु ब्राह्मे--
"गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।
तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥
भागीरथी नर्मदा च यमुना च सरस्वती ।
विशोका च विपाशा च विन्ध्यस्योत्तरतः स्थिताः ॥
द्वादशैता महानद्यो देवर्षिक्षेत्रसंभवाः" इति ।
|
मदनरत्ने पुराणान्तरे--
"महानद्यो देविका च कावेरी वञ्जुला तथा ।
रजसा तु प्रदष्टाः स्युः कर्कटादौ त्र्यहं नृप" इति ॥
|
कात्यापनः--
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम् ।
चन्द्रभागा सती सिन्धुः शरयूर्नर्मदा तथा ॥
गङ्गा च यमुना चैव प्लक्षजाता सरस्वती ।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः ॥
शोणसिन्धुहिरण्याख्याः कोकलोहितघर्घशाः ।
शतद्रूश्चेति वै सप्त पावनाः परिकीर्तिताः" इति ॥
|
- ↑ च. व्यता नास्ती ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--" एतच्च संग्रहवचनमनाकरम् । अतद्गुणसंविज्ञानो बहुव्रीहिर्वाऽत्र द्रष्टव्यः । तेन द्वितीयाद्युपाकर्मण्यपि सति संभवे निषेधोऽस्त्येवेति केचित्" इति ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. च. पुस्तकयोः ।