च्ये(च्य)ते वृधन्वत्यमावास्यायामितिवत् । अन्यथा वाक्यभेदो दुष्परिहरः स्यात् । अतो नर्मदोत्तरभागे सामगैः सिंहस्थे रवौ कर्तव्यं नर्मदादक्षिणभागे सामगैः कर्कटस्थे रवौ कर्तव्यमितिव्यवस्थापरत्वमेवैतयोर्वचनयोर्युक्तमिति द्रष्टव्यम् । ) अत्र गुरुशुक्रास्तादि निषिद्धम् ।
तथा च मनुः--
"शुक्रे मूढेऽप्युपाकृत्य विद्यावित्तविनाशनम् । |
कश्यपोऽपि--
"गुरुशुक्रतिरोधाने वर्जयेच्छ्रुतिचोदनात् । |
तिरोधानमस्तम् । एतच्च मलमासाद्युपलक्षणम् ।
( [२] महेशभट्टो--भद्राव्यतीपातावपि प्रथमे प्रयोगे निषेधति मलमासादिषु द्विजेत्यादिशब्देन भद्राव्यतीपातयोरपि ग्रहणात् ।
"अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत्" |
इतिवचनेन सामान्यतस्तन्निषेधात् ।
"भद्रायां द्वे न कर्तव्ये श्रावणी चैव फाल्गुनी । |
इति विशेषतोऽपि श्रावणीविषये भद्रानिषेधाच्च ।
विष्ट्यादावित्यन्नत्यादिपदेन व्यतीपातस्य ग्रहणम् । श्रावणीशब्देन श्रावण्यां पौर्णमास्यां यद्यत्तद्दिवसविहितं कर्म तत्सर्वं न कर्तव्यमिति तदाशयः ।
श्रावणीशब्दस्य रक्षाबन्धनमात्रविषयत्वादुपाकर्मश्रवणाकर्मणोरसंग्रहस्यार्थतः प्रदर्शनादुपाकर्मश्रवणाकर्मणोर्भद्रानिषेधो नास्तीति धर्मशास्त्रनिबन्धकाराशयो गम्यते । दिनक्षयस्यापि ग्रहणमत्रेति केचित् ।)
अयं च निषेधः प्रथमोपाकरणविषयः--
"गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा । |
इति कश्यपोक्तेः । आदिशब्देन सिंहस्थगुरुवक्रातिचारग्रहणम् ।
"उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि" इति, |