पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११४९
संस्काररत्नमाला ।

 ([१]चन्द्रभागेति बहुपुस्तकेषु दृश्यते पीयूषाभिधायाममरव्याख्यायां तु चान्द्रभागेति दीर्घादिशब्दः, चान्द्रभागीतीबन्तोऽपीत्येतद्द्वयमुक्तं तच्चिन्त्यम् । )

 यत्तु--"प्रथमं कर्कटे देवि त्र्यहं गङ्गा रजस्वला"

 इत्यादिवचनं [ तत्तु ] जाह्नवीभिन्नगोदावर्यादिगङ्गान्तरविषयमिति मदनरत्ने ।

 सर्वथा वापीकूपतडागाद्यभावे सर्वनदीष्वपि रजोदोषो नास्ति ।

तदुक्तं व्याघ्रपादेन--

"अभावे कूपवापीनां तडागसरसां तथा ।
रजोदुष्टेऽपि पयसि ग्रामभोगो न रुध्यते" इति ॥

 उपाकर्मादिष्वपि निषेधो नास्ति । तथा च कात्यायनः--

"उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते" इति ॥

 अत्राऽऽदौ ब्रह्मकूर्चविधिना पञ्चगव्याशनमपि कार्यम् । तदुक्तं विधानमालायाम्--

"ब्रह्मशुद्धौ गृहारम्भे सूतके मृतके तथा ।
यज्ञारम्भे धनप्राप्तौ प्रायश्चित्ते विशेषतः ॥
रोगमुक्तौ च संपर्के क्षुद्रपापापनुत्तिषु ।
विदध्याद्ब्रह्मकूर्चं च मासि मास्यथवा द्विजः" इति ॥

 ब्रह्मशुद्धावित्यत्रोपाकर्मोत्सर्जनाभ्यां क्रियमाणायामिति शेषः ।

 उपाकर्मोत्सर्जनाभ्यां ब्रह्मशब्दवाच्यस्य वेदस्य शुद्धिः कात्यायनेनोक्ता--

"अस्थानोच्छ्वासविच्छे[२]दो घोषणाध्यापनादिषु ।
प्रामादिकः श्रुतौ यः स्याद्यातयामत्वकारि सः[३]ह्रस्वत्वमार्षम् ॥
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवद्द्विजैः ।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥
अयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः ।
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम्" इति ॥

 गृहार[४]म्भनिमित्तमादावधिकारार्थत्वात् । ([५] सूतके मृतके च सूतकमृतकनिमित्तं, तदपगमे, प्रातःसंध्योपासनानन्तरम् । यद्यप्यत्र संध्योपासनं पूर्वं पञ्च


  1. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  2. च. च्छेदौ घो ।
  3. ङ. सः । प्र ।
  4. ङ. रम्भ आदा ।
  5. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"सूतकमृतकयोरन्ते, शुद्ध्यर्थत्वात्" इति ।