पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अतिक्रान्तश्राद्धप्रयोगः]
११०७
संस्काररत्नमाला ।
(अनुपनीत-स्त्री-कर्तृकश्राद्धप्रयोगः)
 

दिवर्गचतुष्टयोल्लेखोत्तरमेव सर्वत्रोल्लेखः । स्त्रिया अप्येतद्दिने मरण एकोद्दिष्टपक्षे पृथगेव[१] । पितृव्यादीनामप्येतस्मिन्दिने श्राद्धं चेत्तेषामप्येकोद्दिष्टपक्षे तैः साकमेव पत्न्या अप्येकोद्दिष्टं कार्यम् । पार्वणपक्षे सर्वेषां सहैवेति द्रष्टव्यम् । यदि समतन्त्राणां श्राद्धानामेकस्मिन्दिने संपातस्तदा तानि सर्वाण्युत्कीर्त्य तन्त्रेण करिष्य इत्युल्लिखेत् । यदि महातन्त्राल्पतन्त्रयोः समासस्तदा महातन्त्रस्यैवोल्लेखं कृत्वा श्राद्धं कुर्यात् । अल्पतन्त्रस्य तु तेनैव सिद्धिः । प्रसङ्गसिद्धस्य[२] न तर्पणम् । विरोधे समसंख्यत्व आदावन्ते वा विषमसंख्यत्वे बह्वनुरोधः ।

इति संपातश्राद्धप्रयोगः ।

[अथातिक्रान्तश्राद्धप्रयोगः ।]

 आशौचादिना मृताहातिक्रमे तदन्ते, तत्राप्यतिक्रमे कृष्णाष्टम्यामेकादश्यां द्वादश्याममावास्यायां वाऽतिक्रान्तं श्राद्धं कुर्यात् । तस्य प्रयोगः--देशकालकथनान्ते तत्तद्वर्गस्य षष्ठ्यन्तमुच्चारणं कृत्वाऽतिक्रान्तमाब्दिकश्राद्धं करिष्य इति संकल्प्य[३] सर्वं पूर्वोक्तवत्कृत्वा श्वोभूते तिलतर्पणं कुर्यात् ।

इत्यतिक्रान्तश्राद्धप्रयोगः ।

अथानुपनीतस्त्रीकर्तृकश्राद्धप्रयोगः ।

 देशकालकथनान्ते--अस्मद्भर्तृतत्पितृतत्पितॄणां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणामाब्दिकश्रा[४]द्धमद्य करिष्य इति स्वयं संकल्पं कृत्वा कंचिद्ब्राह्मणमृत्विक्त्वे[५] परिकल्प्य तं प्रति ब्रूयात्--ममाऽऽज्ञया त्वमिदं कर्म कुर्विति । कर्तोमित्यङ्गीकृत्य सर्वमपि विधिं कुर्यात् । तत्र विशेषः--अ[६]नुज्ञात्र्या भर्तुः शर्मणो गोत्रस्य वसुरूपस्य, अ[७]नुज्ञात्र्या भर्तृपितुः शर्मणो गोत्रस्य रुद्ररूपस्य, अ[८]नुज्ञात्र्या भर्तृपितामहस्य शर्मणो गोत्रस्याऽऽदित्यरूपस्य, इत्यादितत्तद्विभक्त्यूहेन प्रयोगः । ( [९] यत्र यत्र पितृशब्दवत्पितामहादिशब्दोऽपि बहुवचनान्तो दृश्यते तत्रैव पितृशब्देऽप्यूहो नान्यत्र । स च बहुवचनान्त एव । यथा मार्जयन्तां पितरः सोम्यास इत्यादिषु[१०] ।) आपो देवीः स्वधया, अत्र पितरो यथाभागं मन्दध्वम्, अमीमदन्त पितरः, एतानि वः पितरः, नमो वः पितरो रसाय,


  1. ङ. व । तत्रैकोद्दिष्टस्यैव नियतत्वात् । यदि ।
  2. च. स्य त ।
  3. क. ल्प्य पू ।
  4. च. श्राद्धं सद्यः क ।
  5. ङ. क्त्वेन विभाव्य तं ।
  6. ङ. यजमान्या ।
  7. ङ. यजमान्या ।
  8. ङ. यजमान्या ।
  9. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"मार्जयन्तां(तां) यजमान्या भर्ता सोम्यः । मार्जयन्तां(तां) यजमान्या भर्तृपिता सोम्यः । मार्जयन्तां(तां) यजमान्या भर्तृपितामहः सोम्यः । इत्याद्यूहस्तत्र तत्र द्रष्टव्यः । तत्र--" इति ।
  10. क. षु मार्जनमन्त्रादिषु । आ ।