पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०६
[अन्वारोहणश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( श्राद्धसंपाते तन्त्रेण श्राद्धप्रयोगः )
 

अथान्वारोहणश्राद्धप्रयोगः ।

 उक्तापराह्ण ओदनवर्जं भक्ष्यादिकमेकत्रैव श्रपयित्वाऽनापन्नश्चेदे[१]तदपि पृथक्कृत्वा प्राचीनावीती देशकालकथनान्ते-- अस्मत्पितृपितामहप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणाम्, अस्मन्मातृपितामहीप्रपितामहीनाममुकदानां गोत्राणां वसुरुद्रादित्यस्वरूपाणामेतेषां तृप्त्यर्थमाब्दिकश्राद्धं तन्त्रेण करिष्य इति संकल्प्य पितृवर्गमातृवर्गाब्दिकश्राद्धद्वये पुरूरवसंज्ञकदेवस्थाने क्षणः करणीय इत्यादिप्रकारेण तन्त्रेणैव वैश्वदेवविप्रनिमन्त्रणं कृत्वा पितृवर्गार्थं विप्रत्रयं मातृवर्गार्थं च विप्रत्रयं प्रतिवर्गमेकैकं वा निमन्त्र्य यवमिश्रितमुदकं कृत्वेत्यादिपूजान्तं दर्शवत्कुर्यात् । संभवेऽत्र विप्रपङ्क्तौ मातृवर्गार्थं सुवासिनीमुपवेश्य पूजयेत् । ततो दर्शश्राद्धोक्तप्रकारेणाग्नौकरणं कृत्वा परिवेषणं विधाय पित्र्यविप्रेभ्योऽन्नदानान्तं कृत्वा, अस्मन्मात्रे दायै गोत्रायै वसुरूपाया इदमन्नं स्वधा कन्यं न ममेति सुवासिन्यै दद्यादिति विशेषः[२] । तिथिभेदे पृथक्पिण्डदानम् । तिथ्यैक्ये तु द्वयोर्द्विवचनोहेनैक एव पिण्डो देयः । संभवेऽत्रापि पृथगेव पिण्डदानम् । अन्यत्समानम् । परेऽहनि वर्गद्वयस्य तिलतर्पणम् ।

अथ वर्गचतुष्टयस्यैकदिनमरणेन श्राद्धसंपाते पृथ[३]क्पा-
ककरणाशक्तावेकपाकेन तन्त्रेण श्राद्धप्रयोगः ।

 ([४] यद्यपि वर्गचतुष्टयस्य श्राद्धं पृथक्पृथगेव कर्तव्यं तथाऽप्येकस्मिन्दिने मुख्यकाले पृथक्पृथक्कर्तुमशक्यत्वात्तन्त्रमेव । ) देशकालकथनान्ते पितृवर्गस्य मातृवर्गस्य, अपुत्रश्चेन्मातामहस्तद्वर्गस्य मातामहीवर्गस्य च षष्ठ्यन्तमुच्चारणं कृत्वैतेषामाब्दिकश्राद्धं दर्शश्राद्धविधिनाऽद्य करिष्य इति संकल्प्य वर्गचतुष्टयार्थं तन्त्रेणैव वैश्वदेवविप्रनिमन्त्रणं कृत्वा प्रतिवर्गं त्रयं त्रयमेकमेकमेव वा विप्रं निमन्त्र्य पादप्रक्षालनादि सर्वं दर्शवत्कुर्यात् । श्वोभूते तिलतर्पणम् । पितृव्यादीनामप्येतस्मिन्दिवसे चेन्मरणं तदा तेषामेकोद्दिष्टविधिपक्षे पृथगेव मरणक्रमेण तदज्ञाने संबन्धास[५]त्तिक्रमेणोल्लेखं कृत्वा[६] तन्त्रेणैव श्राद्धं मध्याह्नकालत्वात्पित्रादिश्राद्धात्पूर्वमेव कार्यम् । पार्वणपक्षे तु वर्गचतुष्टयेन सहैव[७] । अत्र पित्रा


  1. ङ. देतानपि । च. देतावपि ।
  2. ङ. षः । अन्य ।
  3. ङ. थक्पृथक्पाकेन पृथक्पृथक्श्राद्धकर ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  5. ङ. च. सति क्र ।
  6. ङ. त्वा श्राद्धं कार्य ।
  7. ङ. व स्त्रि ।