पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०८
[प्रोष्ठपदीश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

ऊर्जस्वतीः स्वधया, उत्तिष्ठत पितरः[१], परेत पितरः, यन्तु पितरः, मनोऽन्वाहुवामहे[२], पुनर्नः पितरः, अभून्नो दूतः, ये समानाः समनसः पितर इत्येतेषु मन्त्रेषु तु नोहः । ([३]बहुवचनान्तं(न्त)पितामहादिशब्दप्रयोगदर्शनाभावात् । एकोद्दिष्टपक्षे तद्धर्मेण श्राद्धं कुर्यात् । आचाराद्व्यवस्था )।

इति स्वनुज्ञाते विशेषः ।

 अथवा स्वयमेव वैदिकमन्त्रवर्जं[४] विधिं कुर्यात् । मन्त्रसाध्यकर्मापि तूष्णीं कर्तव्यमेव । ब्राह्मणद्वारा श्राद्धप्रयोगेऽपि मन्त्रवर्जमेव प्रयोग इति बहवः ।

 अनुपनीतानुज्ञातेऽप्येवम् । शूद्रानुज्ञाते तु मन्त्रव[५]र्जमेव विधिः । ज्वरादिना कर्तुरसामर्थेऽप्येष एव विधिः[६] । श्राद्धकर्तृनियमास्तु ऋत्विग्यजमानयोरुभयोरपि समानाः । ([७]उत्तरीयवस्त्रेण यज्ञोपवीतप्राचीनावीते अनुज्ञात्राऽनुपनीतेनानुज्ञात्र्या स्त्रिया च कर्तव्ये । तर्पणं त्वनुज्ञातृकर्तृकमेव । )

इत्यनुपनीताद्यनुज्ञया श्राद्धकरणप्रयोगः ।

अथ प्रोष्ठपदीश्राद्धप्रयोगः ।

 भाद्रपदपौर्णमास्यां कृतनित्यक्रिय उक्तापराह्णे प्रपितामहात्परांस्त्रींस्तिलमिश्रोदकेन तर्पयित्वा देशकालौ संकीर्त्य धुरिलोचनसंज्ञकानां विश्वेषां देवानामित्युत्कीर्त्य प्राचीनावीती-- अस्मत्प्रपिता[८]महपितृपितामहप्रपितामहानां शर्मणां गोत्राणं वसुरुद्रादित्यस्वरूपाणां प्रोष्ठपदी श्राद्धमद्य करिष्य इति संकल्प्य धुरिसंज्ञकविश्वदेवार्थं लोचनसंज्ञकविश्वदेवार्थं च विप्रद्वयमेकं वा निमन्त्र्य, अस्मत्प्रपितामह[९]पितुः शर्मणो गोत्रस्य वसुरूपस्य स्थाने त्वां [१०] निमन्त्र्य इति निमन्त्र्य त्वया क्षणः करणीय इति ब्रूयात् ।अस्मत्प्रपितामह[११]पितामहस्य शर्मणो गोत्रस्य रुद्ररूपस्य स्थाने त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति ब्रूयात् । अस्मत्प्रपिताम[१२]हप्रपितामहस्य शर्मणो गोत्रस्याऽऽदित्यरूपस्य स्थाने त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय


  1. क. च. रः, यन्तु ।
  2. ङ. हे, आ न एतु पु ।
  3. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"एवमन्येष्वपि केवलबहुवचनान्ते पितृशब्देऽप्यूहो भवत्येव (?)" इति ।
  4. ङ. र्जे सर्वे वि ।
  5. क. च. वर्ज एव ।
  6. एतदग्रे क. पुस्तके "ऋत्विक्करणपक्षे तस्मै हिरण्यं दक्षिणां दद्यात्" इत्यधिकम् ।
  7. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  8. ङ. हस्य पि ।
  9. ङ. हस्य पि ।
  10. ङ. पुस्तके "त्वां निमन्त्रय इति निमन्त्र्य" इति "इति ब्रूयात्" इति च नास्ति । एवमग्रेऽपि ।
  11. ङ. हस्य पि ।
  12. ङ. हस्य प्र ।