पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिकश्राद्धप्रयोगः]
१०९७
संस्काररत्नमाला ।

हुतशेषमन्नमपि पित्र्ये परिवेषणीयम्[१] । विधुरेण तु देवविप्रपात्रयोरेव । ततो यज्ञोपवीती[२] विष्ण्वादिदेवताभ्यो नैवेद्यं प्रदर्शयेत् । ततो दक्षिणहस्तेन देवपात्रमालभ्य 'सत्यं त्वर्तेन परिषिञ्चामि' इति परिषिच्य 'पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि० सि मा मे क्षेष्ठा अमुत्रामुष्मिँल्लोके' इति देवपात्रस्थमन्नमभिमृशेत् । मा देवानां क्षेष्ठा इत्यूहं वदन्ति केचित् । पृथिवी समेत्यादिकस्य शेषभूतमन्त्रत्रय[३]स्य लोप एवान्वयासंभवात् । एवं द्वितीयदेवविप्रे । ततः प्राचीनावीती पूर्ववत्पात्रालम्भनं परिषेकं च कृत्वा 'पृथिवी ते पात्रं० मा पितॄणां क्षेष्ठा अ० । पृथिवी समा० दाय' इति पितृपात्रस्थमन्नमभिमृशेत् । एवमितरेषु । मा पितामहानां क्षेष्ठा० अन्तरिक्ष समं त० येति द्वितीये विशेषः । मा प्रपितामहानां क्षेष्ठाः० द्यौः समा तस्याऽऽदि० येतितृतीये । एवं मातामहादि[४]त्रये मन्त्रत्रयमूहेन । शेषभूतं[५] मन्त्रत्रयं तु यथावस्थितमेव । पितृपार्वण एकविप्रपक्षे पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि० मा पितॄणां क्षेष्ठा अ० पृथिवी समा तस्याग्निरु० य । पृथिवी ते पा० मा प्रपितामहानां क्षेष्ठा० अन्तरिक्ष समं तस्य वायु० य । पृथिवी ते पा० मा प्रपितामहानां क्षेष्ठा० द्यौः समा तस्याऽऽदित्य उप० दायेति सर्वान्मन्त्रानुक्त्वाऽन्त उपस्पर्शः कार्यः । एवं मातामहपार्वणे । यदि तु पितृमातामहपार्वणार्थ एक एव विप्रस्तदोहेन षण्मन्त्रानुक्त्वाऽन्त उपस्पृशेत् । ततो यज्ञोपवीती दैवार्घ्योदकात्किंचिदादाय देवविप्रहस्तयोः पूर्ववदर्घ्योदकं शुद्धोदकं च दत्त्वा प्राचीनावीती पित्र्यार्घ्योदकात्किंचिदादाय पित्र्यविप्रहस्ते पूर्ववद्दद्यात् । शुद्धोदकं च । ([६] यद्यर्घ्योदकमवशेषितं भवेत्तदैतदर्घ्यदानम् । ) ततो यज्ञोपवीती भोजनपात्रं सव्यहस्तेन धृत्वा प्राणे निविश्यामृतं जुहोमीत्यनखेन ब्राह्मणहस्ताङ्गुष्ठेनान्नमुपस्पर्शयति । पुरूरवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदमन्नं सोपस्करं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्ति, अमृतरूपेण संपद्यतां स्वाहा हव्यं न ममेत्युक्त्वा यवमिश्रमुदकं पात्रस्य[७] दक्षिणे भागे भूमावेव क्षिपेत् । एवं द्वितीये । ततः प्राचीनावीती पित्र्यविप्राभिमुखः सव्यहस्तेन पात्रं धृत्वा प्राणे निविश्यामृतं जुहोमीत्यनखेन ब्राह्मणहस्ताङ्गुष्ठेनान्नमुपस्पर्शयति । अस्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपायेदमन्नं सोप० अमृतरूपेण संपद्यतां स्वधा कव्यं


१३८
 
  1. क. च. म् । ततो ।
  2. ङ. ती नै ।
  3. च. यस्यापि लो ।
  4. च. दिपात्रत्र ।
  5. क. च. तं य ।
  6. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"न वाऽत्रार्घ्यदानम् ।" इति ।
  7. ङ. स्य वामभा ।