पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९६
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

'यन्मे मातुःपितामही प्र० रेतो मातुःपितामहो वृ० मातुः पितामहायेदं न मम । 'यन्मे मातुःप्रपितामही प्र० रेतो मातुः प्रपितामहो वृ०' मातुःप्रपितामहायेदं० । 'ये चेह पि०'पितृभ्य इदं० 'यद्वः क्रव्या०' पितृभ्य इदं० 'वहाऽऽज्यं जातवेदो मातामहेभ्यो य०' मातामहेभ्य इदं० 'वहाऽऽज्यं जातवेदो मातुःपितामहेभ्यो' मातुःपितामहेभ्य० । 'वहाऽऽज्यं जातवे० मातुःप्रपितामहेभ्यो०' मातुःप्रपितामहेभ्य इदं० । पूर्ववत्षोडश मातामहवर्गार्थान्नस्योहेन । अन्त्यास्तिस्र एव वा ।

 न प्रकृतावूहो विद्यत इति निषेधात्प्रकृतौ दर्शपूर्णमासयोरनेकपत्नीकस्यापि पत्नी संनह्येत्यस्मिन्प्रैषे यथा नोहस्तथा द्विपितृकस्य द्विपितृशब्दादौ नोहः ।

 प्रकृतावेव द्वादशाहेऽद्य सुत्यामित्यालेखन इत्यूहदर्शनादत्राप्यूह इति केचित् । अस्मिन्पक्षे-- 'पितृभ्यां दधे पितामहाभ्यां दधे प्रपितामहाभ्यां दधे । यन्मे मातरौ प्रलुलुभतुश्चरतोऽननुव्रते तन्मे रेतः पितरौ वृञ्जाथामा० । यन्मे पितामह्यौ प्रलु० तन्मे रेतः पितामहौ वृ० यन्मे प्रपितामह्यौ प्रलु० रेतः प्रपितामहौ वृ०' । नामधेयैर्जुहोतीत्यत्र नामद्वयमविभक्तिकमुक्त्वा शर्मभ्यां स्वधा नम इति, यथा देवदत्तयज्ञदत्तशर्मभ्यामिति ।

 तत उपस्तीर्यान्नद्वयात्सकृत्सकृदवदायाभिघार्य, अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति स्विष्टकृतं जुहुयात्[१] । अग्नये क० त इदं० । एवमन्नस्येत्यनुवर्तनादन्नेन स्विष्टकृतम् । आज्येनेत्येके । अत्र वारुण्यादीनामभाव एव । अथ सौविष्टकृतीं जुहोतीत्यथशब्दाज्ज्ञापकात् । ( [२] सर्वदर्विहोमाणामेष कल्प इतिसूत्रे ह्येतच्छब्देनानुक्रान्तस्यैव विधेर्ग्रहणमितिकल्पस्वीकारे तदा वारुण्यादीनामत्रार्थप्राप्तेरथशब्दस्य वारुण्याद्यभावार्थतेति वक्तुं न शक्यत इति यद्युच्यते तदाऽथशब्दोऽनेन स्विष्टकृत्कर्तव्यमित्येतादृशार्थबोधनार्थः । अस्मिन्कल्प एवमन्नस्येति नानुवर्तनीयम् ।)

 ततो यज्ञोपवीती शुल्बप्रहरणादि पूर्णपात्रदानान्तं कुर्यात् । प्रसव्यमेवोत्तरोऽपि परिषेकः ।

 ततो यज्ञोपवीती स्वयमन्नपरिवेषणं कुर्यात् । स्वस्याशक्तौ भार्ययाऽन्यैर्बान्धवैर्वा कारयेत् । आदौ दैवं परिवेषणं पश्चापित्र्यम् । घृतं तु पितृपूर्वकमेव परिवेषणीयमिति केचित् । प्रथमपरिवेषण एवायं नियमो न द्वितीयादिषु ।


  1. ङ. च. त् । ए ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ पुस्तके ।