पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३८
[जातकर्मादिविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

जातकर्मादि प्रागुपनयनात्सर्वं कर्म तूष्णीं कर्तव्यमिति मातृदत्तोक्तेः । 'आवृतैव कुमार्याः' इत्याश्वलायनोक्तेः ।

"तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः"

 इति याज्ञवल्क्योक्तेश्च । एता जातकर्मादिचूडान्ताः ।

"जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्"

 इतिवचनेऽनुवाद्यविशेषणत्वात्पुंस्त्वमविवक्षितम् । तेन कन्याया अपि संस्काराङ्गमाभ्युदयिकं समन्त्रमेव भवति । मन्त्रबाधे मानाभावात् । यत्तु पुंजातकर्मादिसंस्कारानुक्त्वा याज्ञवल्क्यवचः "तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः" इति तत्प्रधानाङ्गमन्त्रबाधपरम् । यत्र प्रथमान्तपदोपात्तत्वं तत्र प्रधान एव तूष्णींत्वविधिर्नाङ्ग इति । आथर्वणा वै काम्या इष्टयस्ता उपांशु क्रियन्त इत्यत्रोपांशुत्वमिव । एवं च वृद्धिश्राद्धं समन्त्रमेव भवतीति द्रष्टव्यम् । यमयोस्तु जातकर्म जननदिने नैव भवति । तस्य यमलजनननिमित्तकशान्तिपूर्वकस्यैवानुष्ठेयत्वादाशौचे तस्या अनुष्ठानानधिकारात् । किंतु नामकर्मदिन एव जातकर्म भवति । नामकर्मदिवसस्यैव तत्कालत्वान्न तु तत्पूर्वं, तत्कालस्याशौचावरुद्धत्वात् । न चैकादशदिवसस्याशौचानवरुद्धत्वेन तत्र जातकर्मानुष्ठानेऽधिकारोऽस्त्येवेति वाच्यम् । तत्र कर्तुरधिकारसत्त्वेऽपि सहाधिकारिण्या भार्याया अधिकाराभावेन तदनुष्ठानस्य सर्वथैवासंभवात् । न च द्वादशेऽहनि नामकर्माधिकारवदेकादशेऽहनि जातकर्मण्यधिकारोऽस्त्विति वाच्यम् । नामकर्मवदत्र तथाविधवचनाभावादेकादशेऽहन्यस्पृश्यत्वलक्षणाशौचस्यानिवृत्तत्वाच्च । तत्र जातकर्मनामकरणे तन्त्रेणैव कालैक्यात् । न चैवं जातकर्मद्वयं नामकरणद्वयं चापि तन्त्रेणैव कर्तव्यमुक्तहेतोरिति वाच्यम् । ज्येष्ठक्रमेणैव संस्कारकर्तव्यतोक्त्या तन्त्राभावस्यैवावगमात् । ज्येष्ठे कृत्स्नसाङ्गसंस्कारसंपादनं कृत्वैव कनिष्ठे साङ्गसंस्कारसंपादनस्यो[१]क्तत्वाच्च । अन्यथोपनयनादावपि तन्त्रापत्तेः । शान्तिसंस्कारयोस्तन्त्रं नैव भवति । शान्तेर्दोषनिबर्हणार्थकत्वेन संस्कारस्य दोषनिबर्हणोत्तरमेवानुष्ठेयत्वेन स्वरूपविरोधात् । अत एव गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्यपि पृथक्पृथगेव ।

"नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्" ।


  1. ङ. च. स्योचितत्वा ।