पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०६५
संस्काररत्नमाला ।

दक्षिणकरयोर्यवोदकं कूर्चेन दत्त्वा देवविप्रावुत्थाप्य तेष्वेव दर्भेषु वक्ष्यमाणासनेषु अन्यतमजातीये प्राङ्मुखे देवविप्रार्थे आसने विविक्ते संस्थाप्य प्राचीनावीती पित्र्यविप्रानुत्थाप्य तज्जातीयान्येवाऽऽसनानि तेष्वेव दर्भेषु दक्षिणामुखानि संस्थाप्योभयेष्वासनेषु तत्तदासनाभिमुखाग्रान्बहुलान्दर्भानास्तृणी


विप्रमामन्त्र्याऽऽवाहयेति तेनानुज्ञातः । 'विश्वे देवाः शृणु० ध्वम्' आर्द्रवविश्वान्देवानावाहयामीति पूर्ववदावाहयेत् । 'विश्वायां दक्षकन्यायां जाता धर्मान्महात्मनः । विश्वे देवा इति ख्याता देववर्या महाबलाः । शक्रेण सह योद्धॄणां विजेतारस्तु रक्षसाम् । यन्नामस्मरणादेव प्रद्रवन्त्यसुराः क्षणात् । बाणबाणासनधरा द्विभुजाः श्वेतवाससः । केयूरिणः कुण्डलिनः किरीटकटकान्विताः । धैर्यसौन्दर्यसंयुक्ता दिव्यस्रगनुलेपनाः । इन्द्रस्यानुचराः सर्वे गोप्तारस्त्रिदिवस्पतेः' इति विश्वदेवमूर्ति ध्यात्वा 'विश्वे देवाः शृ० मादयध्वम्' 'आगच्छन्तु महा० भवन्तु ते' इति द्वाभ्यां देवानुपतिष्ठते । भवाम इति विप्रौ । ततोऽपो दत्त्वा पुरूरवविश्वे देवाः संपादिता वः स्वाहाऽर्घ्या इति प्रथममर्घ्यपात्रं प्रथमविप्रस्य निकटे निदध्यात् । सन्त्वर्घ्या इति विप्रः । आर्द्रवविश्वे देवाः संपादिता वः स्वाहाऽर्घ्या इति द्वितीयमर्घ्यपात्रं द्वितीयविप्राग्रे निदध्यात् । सन्त्वर्घ्या इति विप्रः । ततोऽपो दत्त्वा प्रथमपात्रस्थं कुशद्वयं प्रागग्र प्रथमविप्रदक्षिणकरे निधाय 'या दिव्या आपः प० वर्चसा' इति मन्त्रान्ते पुरूरवविश्वेदेवा इदं वोऽर्घ्यं स्वाहा न मम इति द्विवारमर्घ्यं देवतीर्थेन दत्त्वा पुनरपो दद्यात् । अस्त्वर्घ्यमिति विप्रः । आर्द्रवविश्वे देवा इत्यूहेन द्वितीयपात्रस्थमुदकं द्वितीयविप्रकरे पूर्ववद्दद्यात् । पुरू० आर्द्र० देवा अमी वो गन्धाः स्वाहा न मम इति गन्धः । स्वाहा न ममेति सर्वत्रानुषङ्गः । प्रत्युपचारं जलदानम् । सुगन्धाः सन्त्विति प्रतिवचनम् । पुरू० आ० इमानि वः पुष्पाणि । सुपुष्पाणीति प्रतिवचनम् । पुरू० आर्द्र० एष वो धूप इति धूपं दद्यात् । सुधूपोऽस्त्विति प्रतिवचनम् । पुरूरव० आर्द्र० एष वो दीप इति दीपं दद्यात् । सुदीपोऽस्त्विति प्रतिवचनम् । पुरू० आर्द्र० इदं व आच्छादनम्, इति वस्त्रं दद्यात् । स्वाच्छादनमस्तु, इति प्रतिवचनम् । वस्त्राभावे यज्ञोपवीतं दद्यात्तच्छब्देनैव । गन्धाद्याच्छादनान्ता उपचाराः परिपूर्णा भवन्त्विति विप्रौ वदेत् । तौ च भवन्तु परिपूर्णा इति प्रतिब्रूयाताम् ।

इति देवार्चनम् ।

 ततः प्राचीनावीती दक्षिणामुखः सव्यं जान्वाच्य पित्र्यविप्रदक्षिणकरेषु तिलोदकं दर्भवटुना दत्त्वा, अस्मत्पितुः शर्मणो गोत्रस्य वसुरूपस्य सपत्नीकस्येदमासनमत्राऽऽस्यतामिति तिलसहितान्द्विगुणभुग्नान्दक्षिणाग्रान्दर्भान्वामभागे दद्यात् । धर्मोऽसीति विप्रः । अस्मत्पितामहस्य श० गो० रुद्ररूपस्य सष० दमा० । अस्मत्प्रपितामहस्य श० गो० आदित्य० सप० इदमा० । अस्मत्मातामहस्य श० गो० वसु० सष० इदमा० । अस्मत्मातुःपिता० श० गो० रू० सप० । अस्मत्मातुःप्रपिता० श० गो० आदि० पि० इदमासनमित्यूहेन क्रमेणाऽऽसनानि पूर्ववद्दद्यात् । धर्मोऽसीति विप्राः । अत्र पूर्वोक्तान्निषङ्गपदन्मन्त्राञ्जपेयुः । एकविप्रपक्षे--अस्मत्पितृपितामहप्रपितामहानां श० गो० वसुरू० सप० । अस्मत्माताहमातुःपितामहमातुःप्रपितामहानां श० गो० वसुरू० सप० इदमासनम् । सहैवोत्कीर्तनम् । एवमत्रापि । ततोऽस्मत्सपत्नीकपित्रर्थे) त्वया क्षणः करणीय इत्याद्यूहेन क्रमेण क्षणं दद्यात् । ॐ तथेति प्रतिवचनम् । अत्र पितृ(त्र्य)विप्रा आ ब्रह्मन्नित्यनुवाकं जपेयुः । ततस्तिलोदकेन भुवं प्रोक्ष्य तत्र दक्षिणाग्रान्दर्भान्संस्तीर्य तत्र दक्षिणापवर्गाणि प्रतिवर्गं त्रीणि पात्राणि निधाय तदुपरि प्रादेशमितांस्त्रींस्त्रीन्शाशान्दक्षिणाग्रान्दाक्षिणापवर्गान्निधाय तिलोदकेन क्रमेणाऽऽपूर्य शं नो देवीरिति सकृदेव मन्त्रमुक्त्वा जलमनुमन्त्र्य 'तिलोऽसि सोमदेवत्यो० नः स्वधा नमः' इति प्रतिपात्रं क्रमेण तिलानोप्य


१३४