पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६४
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

चान्तेषु कर्ता[१], एते पवित्रे त्यक्त्वा सग्रन्थिके पवित्रे विसृष्टग्रन्थिके कृत्वा[२] विसृज्य हस्तौ पादौ च प्रक्षाल्य द्विराचामेत् । सर्वाण्याचमनानि सव्येनैव भ[३]वन्ति । ततो[४]ऽन्ये सग्रन्थिके पवित्रे धृत्वोपक्लृप्ते श्राद्धप्रदेशे प्रागग्रेषु दर्भेषु पुरूरवसंज्ञका विश्वे देवाः समाध्वम् । आर्द्रवसंज्ञका विश्वे देवाः समाध्वम्, इति देवविप्रौ प्राङ्मुखावुदक्संस्थमुपवेशयेत् । सुसमास्मह इति विप्रौ[५] । ततः प्राचीनावीती--अस्मत्पितरमुकशर्मन्गोत्र वसुरूप सपत्नीक समास्स्व । अस्मपितामह शर्मन्गोत्र रुद्ररूप सपत्नीक समास्स्व । अस्मत्प्रपितामह शर्मन्गोत्राऽऽदित्यरूप सपत्नीक समास्स्व । अस्मन्मातामह शर्मन्गोत्र वसुरूप सपत्नीक समास्स्व । अस्मन्मातुःपितामह शर्मन्गोत्र रुद्ररूप सपत्नीक समास्स्व । अस्मन्मातुःप्रपितामह शर्मन्गोत्राऽऽदित्यरूप सपत्नीक समास्स्व, इ[६]ति यथायथं दक्षिणाग्रेषु दर्भेषु[७] भुग्नेषु पित्र्यविप्रानुदङ्मुखान्प्राक्संस्थमुपवेशयेत् । सुसमा[८]से, इति विप्राः । ततः[९] प्राचीनावीत्येव--

"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः"

 इति[१०] पापहरं सप्तार्चिःसंज्ञकं मन्त्रं त्रिः पठेत् । अत्र वा सदर्भतिलविकिरणं[११] केवलतिलविकिरणं वा पाकाद्युपचारप्रोक्षणं च । ([१२]तत उदङ्मुखो देवद्विज


  1. ङ. र्ता पवित्रे ग्रन्थिं मुक्त्वा विसृज्य पादौ प्र ।
  2. च. त्वा शुद्धदेशे त्यक्त्वा ह ।
  3. ङ. कार्याणि ।
  4. ङ. तो दक्षिणाप्रवणे गृहमध्ये प्रा ।
  5. ङ. विप्राः ।
  6. ङ. इत्यूहेन द ।
  7. ङ. षु पि ।
  8. ङ. मास्स्वेति ।
  9. ङ. तः दे ।
  10. ङ. ति पठे ।
  11. ङ. णं पाकप्रो ।
  12. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ पुस्तके संक्षिप्तो ग्रन्थो विद्यते । स यथा-- "तत उदङ्मुखो दक्षिणं जान्वाच्य देवद्विजदक्षिणकरयोर्थबोदक दर्भवटुना दत्त्वा 'पुरूरवविश्वेषां देवानामिदमासनम् । अत्राऽऽस्यताम्' इति यवसहितान्प्रागग्रान्दर्भानृजून्दक्षिणतो दद्यात् । धर्मोऽसीति विप्राः प्रतिब्रूयुः । एवं द्वितीये विप्र आर्द्रवविश्वेषां देवानामित्यूहेन । 'स इषुहस्तैः० ऋक् । नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमः । नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः' इति मन्त्राञ्जपेताम् । ततः पुरूरवविश्वे(श्व)देवार्थे त्वया क्षणः करणीयः, इति क्षणं दद्यात् । ॐ तथेति प्रतिवचनम् । आर्द्रवविश्वे(श्व)देवार्थे त्वया क्षण: करणीय इत्यूहेन द्वितीयदेवविप्रे । देवविप्रावा ब्रह्मन्नित्यनुवाकं जपेताम् । ततो भुवं यवोदकेन प्रोक्ष्य तत्र प्रागग्रं दर्भद्वयं निधाय तत्र प्राक्संस्थं पात्रद्वयं निधाय तदुपरि प्रादेशमितौ द्वौ द्वौ कुशौ साग्रौ प्रागग्रौ निधाय तस्मिन्यवमिश्रिता अप आसिच्य 'शं नो देवी० स्रवन्तु नः' [ इति ] सकृदेव मन्त्रमुक्त्वा पात्रद्वयमनुमन्त्र्य 'यवोऽसि धान्यराज्ञो० मृषिभिः स्मृतम्' इति मन्त्रेण 'यवोऽसि यवया० रातीः०' इत्यनेन मन्त्रेण वा तयोः क्रमेण यवानोप्य गन्धद्वारामिति गन्धमोषधयः प्रतिमोदध्वमिति पुष्पाणि च प्रक्षिपेत् । सर्वत्र मन्त्रावृत्तिः । ततो देवपात्रे संपन्ने इति देवविप्रो वदेत् । सुसंपन्ने इति विप्रौ प्रतिवदेताम् । ततो देवविप्रकरयोर्यवोदकं दत्त्वा कुशयवकरः पुरूरवविश्वान्देवांस्त्वयि आवाहयिष्य इति प्रथमदेवविप्रस्य दक्षिणपादादिमूर्धान्तं प्रदक्षिणमावाह्य, आर्द्रवविश्वान्देवांस्त्वय्यावाहयिष्य इति द्वितीयदेव