पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६६
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

यात् । कम्बलाद्यासनेषु दशा एव मुखानि । काष्ठमयाद्यासनेषु तु मुखस्थानीयत्वेनावयवः संकेतेन परिकल्पनीयः । तत्र देवार्थासनयोर्विप्रदक्षिणदेशमनुलक्ष्य तत्रर्जून्सयवान्प्रागग्रान्दर्भान्निधाय भूर्भुवः सुवः पुरूरवसंज्ञकानां विश्वेषां देवानामिदमासनमिति प्रथमदेवविप्राय सव्यहस्तेनाऽऽसनं स्पृशन्निवेद्य, भूर्भुवः सुवः, अत्राऽऽस्यतामित्यासनं स्पृशन्नेव दक्षिणहस्तेन तं विप्रमासनस्योपरि प्राङ्मुखमुपवेशयेत् । विप्र ओमित्यङ्गीकृत्य 'जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठितः' इति मन्त्रेण तस्मिन्नासन उपविशेत् । आर्द्रवसंज्ञकानां विश्वेषां देवानामित्यूहेन द्वितीयदेवविप्र एवमेव । उपवेशनमपि प्रथमविप्रवद्द्वितीयवि


गन्धद्वारामिति गन्धमोषधयः प्रतिमोदध्वमिति पुष्पाणि च निक्षिपेत् । सर्वत्र मन्त्रावृत्तिः । ततः पित्र्यपात्राणि संपन्नानीति विप्रान्वदेत् । सुसंपन्नानीति विप्राः । ततः पित्र्यविप्रदक्षिणकरेषु तिलोदकं दत्त्वा कुशतिलहस्तः 'अस्मत्पितरं शर्माणं गोत्रं वसुरूपं सपत्नीकं त्वय्यावाहयिष्ये' इति पित्रर्थविप्रमामन्त्र्याऽऽवाहयेति तेनानुज्ञातः 'उशन्तस्त्वा ह० अत्तवे' अस्मत्पितरं सपत्नीकमावाहयामि, इति विप्रमूर्धादिदक्षिणपादान्तं तिलैरप्रदक्षिणमावाहयेत । अस्मत्पितामहं शर्माणं गोत्रं रुद्ररूपं सपत्नीकं त्वय्यावाहयिष्य इत्याद्यूहेन तत्तद्विप्रेषु पितामहादीन्पूर्ववदावाहयेत् । 'उपहूताः पितरः० त्वस्मान्' इति पितॄनुपस्थायापो दत्त्वा प्राचीनावीत्येवास्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीक संपादितास्ते स्वधाऽर्घ्या इत्याद्यूहेन तत्तदर्घ्यपात्रं तत्तद्विप्रसमीपे निदध्यात् । सन्त्वर्घ्या इति प्रतिवचनम् । ततोऽपो दत्त्वा पित्रर्थपात्रस्थान्दर्भान्द्विजदक्षिणहस्ते दक्षिणाग्रान्निधायार्घ्यपात्रोदकं किंचिदवशेषयन्खड्गपात्रे गृहीत्वा वामकरान्वारब्धेन गृहीतखड्गपात्रेण दक्षिणेन हस्तेन 'अस्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीकेदं तेऽर्घ्यं स्वधा नमः, इति पितृतीर्थेन दद्यात् । अस्त्वर्घ्यमिति विप्रः । 'या दिव्या आ० वर्चसा' इति द्विजहस्तात्स्रवन्तीरपोऽनुमन्त्रयेत् । एवं पितामहादिषूहेन तत्तत्पात्रस्थजलं पूर्ववत्खड्गपात्रेण किंचिदवशेषयन्दद्यात् । ततोऽपो दत्त्वा प्रपितामहपात्रशेषं पितामहपात्रे निक्षिप्य तज्जलं पितृपात्रे निक्षिप्य मातुःप्रपितामहपात्रशेषं मातुःपितामहपात्रे निक्षिप्य तज्जलं मातामहपात्रे निक्षिप्य पितृपितामहप्रपितामहद्विजकरस्थितकुशान्पितृपात्रे मातामहमातुःपितामहमातुःप्रपितामहद्विजकरस्थितकुशान्मातामहपात्रे च निधाय द्विजवामतः पितृपितामहप्रपितामहानां स्थानमसि मातामहमातुःपितामहमातुः प्रपितामहानां स्थानमसीति तत्पात्रद्वयं दक्षिणसंस्थं न्युब्ज निदध्यात् । अथवा मातामहादिपात्रस्थं शेषं सर्वं पितृपात्र एव निक्षिप्य तत्पात्रमेकमेव स्थापयेत् । आ समाप्तेः पात्रचालनं न कुर्यात् । ततोऽपो दत्त्वाऽस्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीकेत्याद्यूहेनामी ते गन्धाः । इमानि पुष्पाणि । धूपः, दीपः, आच्छादनम्, इति तत्तच्छब्दैर्गन्धादि दद्यात् । सर्वत्र स्वधा न ममेत्यनुषङ्गः । प्रत्युपचारं तिलोदकदानम् । वस्त्राभावे यज्ञोपवीतं तच्छब्देनैव देयम् । पूर्ववत्प्रतिवचनानि । एकब्राह्मणपक्षे व इत्यूहः ।

इति पित्रर्चनम् ।

 तत उपवीती देवद्विजभोजनस्थाने गोमयेन चतुरस्रे मण्डले कृत्वा तदुपरि सयवान्दर्भान्प्रागग्रान्निक्षिप्य सौवर्णान्यभावे कांस्यानि तदभावे मध्यमपर्णव्यतिरिक्तपलाशपत्रमधूकाम्रप्लक्षग्राम्यकदल्याद्यन्यतमपात्राणि संस्थाप्य तत्समीपं लघुपात्राणि च संस्थापयेत् । ततः प्राचीनावीती पितृपात्रप्रभोजनस्थाने गोमयेन वर्तुलानि मण्डलानि कृत्वा तदुपरि सतिलकुशान्दक्षिणाग्रान्निक्षिप्य रौप्यपात्राण्यभावे कांस्यानि तदभावे पूर्वोक्तानि पात्राणि संस्थाप्य तत्समीपे लघुपात्राणि संस्थापयेत्" इति ।