यदा दिनद्वयेऽप्यपराह्णसंबन्धाभावस्तदाऽपि पूर्वैव । तदाह मनुः--
"न द्व्यहव्यापिनी चेत्स्यान्मृताहस्य यदा तिथिः । |
एकोद्दिष्टस्य तु मध्याह्नो मुख्यः कालः ।
"एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्" इतिवचनात् । |
अत्र मध्याह्नशब्देन मध्याह्नैकदेशः कुतपरौहिणाख्यमुहूर्तद्वयात्मको गृह्यते ।
अत एव श्लोकगौतमः--
"आरभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः । |
कुतपपूर्वभाग एवाऽऽरम्भः । तदाह व्यासः--
"कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् । |
तत्रैव कुतप एव । अत्रापि तिथिद्वैधे पार्वणतिथिवन्निर्णयो ज्ञेयः ।
इति क्षयाहैकोद्दिष्टतिथिनिर्णयः ।
अथाऽऽमश्राद्धकालः ।
तत्र मरीचिः--
"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः ॥ |
तत्रापि संगवकाले कर्तव्यम् ।
"कालात्प्रातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः । |
अयमेव कालो हिरण्यश्राद्धस्यापि । वृद्धिश्राद्धस्य निमित्तानि पारिजाते--
"स्यादाभ्युदयिकं श्राद्धं वृद्धिपूर्वेषु कर्मसु" इति । |
वृद्धिपूर्वशब्दार्थं स्वयमेव विवृणोति--
"पुंसः सवनसीमन्तचौलोपनयनेष्विह । |
आश्वलायनः--"युग्मान्वृद्धिपूर्तेष्वयुग्मानितरेषु" इति ।