तत्रापि पादन्यूनापराह्णान्त्यमुहूर्तस्य चतुर्थप्रहरान्तर्गतत्वाच्चतुर्थप्रहरस्य--
"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः । |
इति निषिद्धत्वात्कुतपमारभ्य मुहूर्तचतुष्टयं पार्वणस्य मुख्यः कालः । यदा दिनद्वये संपूर्णमुख्यापराह्णव्याप्तिस्तदा पूर्वैव ।
तदाह मनुः--
"यस्यामस्तं रविर्याति पितरस्तमुपासते । |
अत्रापराह्णशब्दोऽपराह्णैकदेशपर इति हेमाद्रिः ।
सुमन्तुरपि--
"द्व्यहे तु व्यापिनी चेत्स्यान्मृताहस्य तु या तिथिः । |
नारदीयेऽपि--
"दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् । |
यदा दिनद्वयेऽपि साम्येनैकदेशव्याप्तिस्तदा तिथिवृद्धावुत्तरा तिथिक्षये पूर्वा ।
तदाह बौधायनः--
"अपराह्णद्वयव्यापिन्यतीतस्य च या तिथिः । |
अत्र क्षयवृद्धी उत्तरतिथिगते ज्ञेये न ग्राह्यतिथिगते । दिनद्वये संपूर्णापराह्णादिव्याप्तेर्वृद्ध्यैकनियतत्वेन । तत्र क्षयोदाहरणम्-–यदा प्रतिपदष्टादशघटिका द्वितीया चतुर्विंशतिर्घटिका तृतीया द्वाविंशतिर्घटिका तदा द्वितीयाश्राद्धं प्रतिपदि कार्यम् । वृद्ध्युदाहरणं यदा प्रतिपद्द्वितीये यथास्थिते तृतीयाऽष्टाविंशतिघटिका तदा द्वितीयायां तदिति माधवादयः । अत्रेदं क्षयोदाहरणं ज्योतिःशास्त्रप्रसिद्ध्या न कदाचिदपि संभाव्यत इति वृद्धिक्षयौ पूर्वतिथ्यपेक्षया ग्राह्यातिथिगतौ ग्राह्याविति केचिन्नवीनाः । तिथिसाम्येऽपि पूर्वैव । यस्यामस्तमिति दर्शं च पौर्णमासं चेत्यनन्तरोदाहृतवचनद्वयात् । अत एव खर्वशास्त्रं तु क्षयाहविषयबहुवाक्यानुरोधात्तद्व्यतिरिक्तविषयमिति हेमाद्रिः संगच्छते । खर्वो दर्प इति क्षयाहव्यतिरिक्तश्राद्धतिथिविषयम् । द्व्यहे तु व्यापिनीत्याद्युदाहृतवचनविरोधादिति मदनरत्नश्च । वैषम्येणोभयापराह्णैकदेशव्याप्तौ तु यत्राधिकापराह्णव्याप्तिः सा ग्राह्या । तदाह माधवीये मरीचिः--
"द्व्यपराह्णव्यापिनी चेदाब्दिकस्य यदा तिथिः । |