पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९९९
संस्काररत्नमाला ।

 मनोज्योतिरित्ययं मन्त्रो घृतेनेतिपदान्तः । तस्यैव सर्वत्र प्रायश्चित्तार्थत्वदर्शनात् । उद्बुध्य, उद्बुध्यस्वाग्न इति मन्त्रः । व्याहृतयो व्यस्ताः समस्ता वा । लौकिकाग्नेरप्यलाभे द्विजपाण्यादिषु ।

 तदुक्तं मत्स्यपुराणे--

"अग्न्यभावे तु विप्रस्य पाणौ वाऽथ जलेऽपि वा ।
अजकर्णेऽश्वकर्णे वा गोष्ठे वाऽथ शिवान्तिके" इति ॥

 अत्र यद्यपि 'अग्न्यभावे तु विप्रस्य' इति सामान्यत उक्तं तथाऽपि प्रकृतत्वात्संनिहितपरित्यागे कारणाभावात्,

"पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्"

 इति कात्यायनोक्तेश्च पित्रर्थविप्रस्येति गम्यते । प्रधानस्य प्रत्यङ्गमावृत्तेर्निषेधात्प्रतिमूर्धन्य इतिवचनाच्चैकस्य प्रथमोपविष्टस्यैव । यद्यप्यत्र हस्तशब्दः साधारणस्तथाऽपि 'ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् ।' इतिश्रुतेः, 'दक्षिणाचारेण कर्तव्यम्' इतिसूत्रान्तरात्, 'पाणौ दद्यात्तु दक्षिणे' इतिगार्ग्यस्मृतेश्च दक्षिणहस्त एव होमः । अनग्निकः श्राद्धकर्ता मासिकश्राद्धं चेद्दक्षिणहस्ते सोमाय पितृमत इत्यादिभिः षोडशमन्त्रैः षोडशाऽऽज्याहुतीस्तैरेव मन्त्रैः षोडशाऽऽन्नाहुतीः, अन्त्यैस्त्रिभिरन्नाहुतित्रयमेव वा, मासिश्राद्धं चेत्पिण्डपितृयज्ञाहुतित्रयमेवान्नेन हुत्वाऽवशिष्टमन्नं पङ्क्तिमूर्धन्यादन्येषां पित्र्यविप्राणामेव पात्रेषु विभज्य निदध्यात् । शेषप्रतिपत्ताविदम[१]पिधास्यते । अजकर्णाश्वकर्णयोर्दक्षिणयोरेव ग्रहणम् । 'एकाङ्गवचने दक्षिणं प्रतीयादनादेशे' इत्याश्वलायनोक्तेः ।

 शङ्खः--

"अप्सु चैव कुशस्तम्बे अग्निं कात्यायनोऽब्रवीत् ।
रजते च सुवर्णे च नित्यं वमति पावकः" इति ॥

 ब्राह्मणपाणिरेव प्रथमोऽनुकल्पः । न च जलाजकर्णादीनां निरवकाशतया समविकल्प इति वाच्यम् । ब्राह्मणाभावे विधीयमाने दर्भवटुश्राद्धे तेषां सावकाशत्वात् । पाणावग्नौकरणहोमेऽपि प्राकृता धर्माः सर्वेऽपि कार्याः पाण्यधिकरणकाग्निहोत्रवत् ।समिन्धनरूपकार्यस्याभावादिध्माभावः । इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति । पित्र्यविप्रपाणिं परिसमुह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय पुनर्वामेनाभिघार्य जुहुयादिति स्मृत्यर्थसारे । स्मृतिचन्द्रिकाकारस्तु विप्राभ्यनुज्ञा नास्तीत्यशुद्धम् । अनग्निश्चेदाज्यं गृहीत्वा भवत्स्वेवाग्नौकरण


  1. ङ. मभिधा ।