पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९८
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--
(मासिश्राद्धाग्नौकरणाग्निनिर्णयः )
 

णाग्निसद्भावाद्दक्षिणाग्नावेव होमः । तिथ्यन्तरश्राद्धे तु विहृतदक्षिणाग्नेरभावादौपासन इति यदुक्तं तद्येषां सूत्रे दक्षिणाग्नेरुद्धरणपक्षस्तत्परम् । स्वसूत्रे तु नित्यं गार्हपत्यदक्षिणाग्नी धार्येते इति वचनेन दक्षिणाग्नेर्धारणस्यैव सर्वदा विहितत्वेन तिथ्यन्तरश्राद्धेऽपि तत्रैवाग्नौकरणहोम इति ज्ञेयम् । यद्यपि स्मार्तमग्नौकरणं श्रौते दक्षिणाग्नौ न युक्तं तथाऽप्याहिताग्निस्तु जुहुयादितिवचनाद्भवतीति हेमाद्रिमाधवचन्द्रिका[कारा]दयः । मासिकश्राद्धस्य गृह्योक्तत्वाद्गृह्याग्नावेव होमः । न दक्षिणाग्नौ । गृह्याग्नेरभावे तु लौकिकाग्नाविति द्रष्टव्यम् ।

"अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न विन्दति" ।

 इतिवचनात् ।

"अ[१]ग्न्यर्थो लौकिके वाऽपि जुहुयात्कर्मसिद्धये" ।

 इति वायुपुराणवाक्यात्,

"साग्निरौपासनेऽनग्निरग्नौ कुर्वीत लौकिके ।
पाणौ होमं प्रशंसन्ति न त्वापस्तम्बशाखिनाम् ॥
स्नातका विधुरा वा स्युर्यदि वा ब्रह्मचारिणः ।
अग्नौकरणहोमं तु कुर्युस्ते लौकिकेऽनले" ॥

 इतिवचनाच्च तैत्तिरीयैर्ब्रह्मचारिस्नातकविधुरैर्लौकिकाग्नावेव होमः कार्यः । आपस्तम्बपदं सत्याषाढाद्युपलक्षणं, समानन्यायत्वात् । सर्वाधानिनो गृह्योक्तमासिकश्राद्धेऽपि विश्वप्रकाशवचनाल्लौकिकाग्नौ होमो भवत्येव, न तु लोप इति ज्ञेयम् । अयं होमो लौकिकाग्नावयाश्चेत्याहुतिं हुत्वा कार्यः ।

 तदुक्तं बृहन्नारदीये-

"नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते ।
संधायाग्निं ततो होमं कृत्वा तं विसृजेत्पुनः" इति ॥

 अयाश्चेति तत्कालेऽग्निं संधाय हुत्वा तं त्यजेदित्यर्थः ।

"नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते ।
अयाश्चेत्यग्निं संधाय कृत्वा होमं विसर्जयेत्" ॥

 इतिस्मृत्यन्तरसंवादात् । नष्टाग्निर्विधुरो दूरभार्यः प्रवासी । नष्टाग्निरिति स्नातकब्रह्मचारिणोरुपलक्षणमिति केचित् ।

 विश्वप्रकाशेऽन्या अप्याहुतय उक्ताः--

"अयाश्चाग्ने मनोज्योतिरुद्बुध्यव्याहृतीस्तथा ।
हुत्वाऽग्नौकरणं तत्र कृत्वा तं विसृजेत्पुनः" इति ॥


  1. ख. च. अग्न्यर्थौ । ङ. अग्न्यर्थे ।