पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०००
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--
(हुतावशिष्टप्रतिपत्तिः)
 

मिति पूर्ववत्तथाऽस्त्वितिशौनकगृह्यविरोधात् । मेक्षणाभावोक्तिरपि मेक्षणकार्येऽन्यस्य विध्यभावादयुक्ता । परिसमूहनपर्युक्षणसद्भावोक्तिश्चायुक्ता । पांसुनिरसनलक्षणस्य दृष्टकार्यस्य लोपात् । नियमादृष्टमात्रस्य चाप्रयोजकत्वादित्याह । यदा तु प्रश्नाभ्यनुज्ञासद्भावस्तदा स्वसूत्रानुसारेणैव प्रश्नाभ्यनुज्ञावचने उद्धरिष्याम्यग्नौ च करिष्यामि काममुद्ध्रियतां काममग्नौ च क्रियतामिति । जलपाण्यादिषु होमेऽपि प्रश्नप्रतिवचने यथावस्थिते एव । एतेषां प्रतिनिधित्वेन प्रतिनिधिषु तच्छन्दनिगम इतिन्यायेन मुख्यशब्दप्रवृत्तेरनपायात् ।

विशेषमाह कश्यपः--

"अनग्निको यदा विप्रः श्राद्धं कुर्यात्तु पार्वणम् ।
अग्नौकरणवत्तत्र होमो दैवकरे भवेत्" इति ॥

यमोऽपि--

"अपत्नीको यदा विप्रः श्राद्धं कुर्वीत पार्वणम् ।
पित्र्यविप्रैरनुज्ञातो(ते) वैश्वदेवे तु हूयते" इति ॥

 भोः पित्र्यविप्रा भवदनुज्ञयोद्धरिष्यामि देवविप्रपाणावग्नौ च करिष्यामीत्यामन्त्र्य काममुद्ध्रियतां कामं देवविप्रकरेऽग्नौ च क्रियतामिति तैरनुज्ञातो देवविप्रकरेऽग्नौकरणहोमं कुर्यादित्यर्थः ।

अथ हुतावशिष्टप्रतिपत्तिः ।

 तत्राग्नौ होममुक्त्वाऽऽह याज्ञवल्क्यः--

"हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु न विशेषतः" इति ॥

 अत्र रौप्येष्वितिवचनात्पैतृकविप्रभाजनेष्विति गम्यते ।

तथा च यमः--

"अग्नौकरणशेषं तु पित्र्येषु प्रतिपादयेत् ।
प्रतिपाद्य पितॄणां तु न दद्याद्वैश्वदेविके" इति ॥

अत्राग्निशब्दः पाण्याद्यधिकरणोपलक्षकः । अग्नौकरणशब्दस्य नामधेयत्वात् ।

तथा च पङ्क्तिमूर्धन्यपित्र्यपाणौ होममुक्त्वाऽऽह कात्यायनः--

"हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्" इति ।

 अन्यशब्दस्य प्रकृतसजातीयवचनात्पित्र्यपङ्क्त्युपविष्टविप्रपात्रेष्विविति लभ्यते ।

 अत एवाऽऽह यमः--

"पित्र्यपाणिहुतोच्छेषं पित्र्यपात्रेषु निक्षिपेत् ।
अग्नौकरणशेषं तु न दद्याद्वैश्वदेविके" इति ॥

 अत्र पित्र्यपाणिग्रहणमुपलक्षणम् । अतो वैश्वदेविकद्विजपाणौ होमेऽपि शेषस्य पितृपात्रेष्वेव प्रक्षेपो न देवपात्रेष्विति ।