पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९९३
संस्काररत्नमाला ।

चीनौ तिर्यगावर्तितौ पाणी कृताञ्जली येनेत्येतादृशे विग्रहेऽञ्जलिना निनयनं पूर्ववदेव । अवाचीनो दक्षिणः पाणिर्यस्याञ्जलेरित्येवं विग्रहेऽञ्जलिभूतस्य दक्षिणस्य पाणेरवाचीनताऽधरता कार्येति स एवार्थः । एवंभूतेन दक्षिणेन पाणिनाऽञ्जलिना वा दक्षिणापवर्गांस्त्रीनुदकपूर्णानञ्जलीन्मार्जयन्तामित्येतैस्त्रिभिर्मन्त्रैस्त्रिषु देशेषु निनयति रेचयति प्रतिमन्त्रमसाववनेनिङ्क्ष्वेत्येतैस्त्रिभिर्वा । असावित्यत्र तत्तन्नामग्रहणं संबुद्ध्यन्तम् । एवं मातामहपार्वणे तेष्ववा० ददाति । तेषु निनयनस्थानेष्ववाचीनपाणिरध आवृ[१]त्तो दक्षिणपाणिर्यस्याङ्गुष्ठभागस्य दक्षिणं पार्श्वमधो यस्य पाणेः सोऽवाचीनपाणिः । एवंभूतो दक्षिणापवर्गान्पिण्डा[२]न्कृतान्ददाति । कथम् । एतत्ते ततासाविति पित्रे पिण्डं ददाति । एतत्ते पितामहासाविति पितामहाय । एतत्ते प्रपितामहासाविति प्रपितामहाय । असावित्यत्र संवृद्ध्यन्तानि पित्रादिनामानि ग्राह्याणि, नात्र गोत्रवसुरूपादिशब्दोच्चारणम् । सूत्रकारेणाविधानात् । केचिदत्रापि कुर्वन्ति । सर्वेषु ये च त्वामित्यनुषङ्गः । तत्र तेषववाचीनपाणिर्दक्षिणापवर्गमेतत्ते ततासाविति पित्रे पिण्डं ददातीत्येवं लघुना सिद्धे पिण्डान्ददातीति पृथग्वचनं चतुर्थस्यापि निनयनस्थान एव दानार्थम् । इतरथा त्रीनितिवचनात्तत्र निनयनं न स्यात् । प्रपितामहात्परांस्त्रीनुद्दिश्य तूष्णीं चतुर्थं पिण्डं दद्यात् । स कृताकृतो वैकल्पिक इत्यर्थः । अप्रदानपक्षे बर्हिषि लेपनिमार्जनं कार्यम् । तूष्णींग्रहणं मन्त्रनिवृत्त्यर्थम् । अवचनादेव तत्सिद्धिरिति चेन्न । निनयनादीनामविशेषोपदेशान्मन्त्रप्रसङ्गात् । प्रधानस्य तूष्णींवचनात्तद्वशवर्तित्वात्तेषामपि तूष्णीकत्वम् ।

 अथ यदि नामधेयानि न० सुवीरा इति । अथ यदि पितॄणां नामधेयानि न विद्यान्न जानीयात्तदा स्वधा पितृभ्यः पृथि[३]वीपद्भ्य इत्येतैः पित्रादिभ्यः पिण्डान्दद्यात् । नामधेयानीत्येकशेषनिर्देशः । तेनैकस्य द्वयोस्त्रयाणां वा नाम्नो विस्मरण एतैरेव दानम् । अथशब्दः पृथगधिकारार्थः पूर्वेषां मन्त्राणां व्यतिषज्य क्रिया मा भूदित्येतदर्थम् । कुतः । अस्मिन्पक्षे मार्जयन्तामित्येव निनयनमन्त्रा भवेयुरर्थात् । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । अत्रेतिवचनं कालनियमार्थम् । कालान्तरे पिण्डपितृयज्ञे दर्शनात् । तेन ज्ञायते तत्रोक्तः पिण्डदानकालोपायो द्विपितृकादीनामिहापि भवतीति । अञ्जनाभ्यञ्जनयोरेव समासवचनं क्रमनियमार्थम् । तयोरनुपिण्डमितिवचनाच्चतुर्थेऽस्याप्राप्तिराशङ्क्येत तन्निवृत्त्यर्थं ददातीत्युच्यते । आङ्क्ष्वामावाङ्क्ष्वासाविति त्रिराञ्जनमनुपिण्डं ददाति । तूष्णीं च[४]तुर्थे । त्रिर्ग्रहणं प्रति


१२५
 
  1. ङ. वृत्तपाणिर्दक्षिणा ।
  2. च. ण्डान्कृत्वा ददा ।
  3. क. ङ. च. च. धिविष ।
  4. क. ख. च. चतुर्थम् । त्रि ।