पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९२
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--

ब्देन ग्रहणम् । एवकारकरणमावाहनमपि तामेव दिशमभिमुखीकृत्य कर्तव्यमितिज्ञापनार्थम् । अथ नामधेयैर्जुहोतीत्यत्राथशब्दः पूर्वेण संबन्धार्थः । तेन पितृपितामहप्रपितामहनामधेयैर्होमः सिध्यति । जुहोतिवचनं द्विपित्तृकस्यापि होमाभ्यावृत्तिनिवृत्त्यर्थम् । यन्मे पितामही यन्मे प्रपितामहीत्यस्योहप्रदर्शनार्थत्वात्पितृशब्देऽपि पितामहप्रपितामहशब्दाभ्यामूहः कार्यो यथायथम्, पितामहो वृङ्क्तां प्रपितामहो वृङ्क्तामिति । वहान्नमिति मन्त्र संनमतीत्येतस्य प्रदर्शनार्थत्वादन्नस्य कू[१]ल्या इत्यत्राप्यूहः । अत्रैके वर्णयन्ति--पूर्वानुक्रान्ताः षोडशाऽऽज्याहुतीरन्नस्य जुहोतीति । अपरे तु--आनन्तर्याद्वहाऽऽज्यमित्येतासामेव तिसृणामिति । उदीच्यानामपि पाठः । एवं ते पठन्ति--अथाऽऽज्यस्य जुहोति वहाऽऽज्यं जातवेद इति । तत्राथशब्द आज्यस्य ग्रहणं च, एवमन्नस्य जुहोतीत्यत्र तासामेव संप्रत्ययार्थम् । अथ सौविष्टकृतीं जुहोतीत्यत्राथशब्दः पूर्वेण संनिहितेनान्नहोमेन संबन्धार्थः । तेनान्नेनैव स्विष्टकृद्धोमः । एवमन्नस्येत्यनुवर्तनादन्नेन स्विष्टकृतमिति व्याख्यानम् । अथशब्दो यत्र यत्राथशब्दस्तत्र प्रधानार्थद्रव्येणैव स्विष्टकृद्धोम इतिज्ञापनार्थः । सर्वदर्विहोमाणामेष कल्प इतिसूत्रव्याख्याद्वयमध्ये पूर्वव्याख्यापक्षे वारुणीहोमादिप्राप्तिः साधिताऽस्ति तन्निवृत्त्यर्थोऽप्यथशब्दो द्रष्टव्यः । द्वितीयव्याख्याने त्वप्राप्तिरेव

 ततो यज्ञोपवीती परिषेकादिकर्मशेषं समापयेत् । स्विष्टकृद्धोमस्य प्रदर्शनार्थत्वात् ।

 अथान्नमभिमृशति--पृथिवी ते पा० त्वायेति । अथ प्राचीनावीती ब्राह्मणभोजनार्थमन्नमभिमृशति पृथिवी व इत्येतैः । अथशब्दो होमार्थादन्नादस्यान्नस्यान्यत्वख्यापनार्थः । प्राणे निविश्येत्यनेनानखेनाङ्गुष्ठेनान्नमुपस्पर्शयति प्रतिपुरुषमावर्त्य मन्त्रम् । भुञ्जानान्ब्राह्मणान्ब्रह्मणि म इत्यनेन समीक्षते । सकृदेव मन्त्रः । विभवादत्रान्नं धनं वा दक्षिणा । यथाश्रद्धमन्नं धनं च ददातीति पूर्वेद्युःश्राद्धेऽन्नधनदानयोरुभयोर्दक्षिणान्वोक्त्या प्रकृतावन्यतरस्यैतदतिरिक्तस्य वासआदेर्वा दक्षिणात्वस्यार्थादवगमात् । तेन दक्षिणादानमपि सूत्रविहितमेवात्र । ततो गच्छतोऽनुप्रव्रज्य शेषमनुज्ञाप्यानुगतस्तान्विप्रान्प्रदक्षिणीकृत्य प्रत्येत्योदकुम्भं समूलदर्भमुष्टिं चकारादाञ्जनादिसामग्रीं गृहीत्वाऽग्नेर्दक्षिणपूर्वभवान्तरदेशं गत्वा तत्रोपविश्य प्राचीनावीती दक्षिणाग्रान्दर्भान्स स्तीर्य तेषु दर्भेष्ववाचीनपाणिरवाचीनस्तिर्यगावर्तितः पाणिर्येन निनयनवेलायां सोऽवाचीनपाणिः । निनयनं दक्षिणहस्तेन पित्र्येण तीर्थेन कार्यमित्यर्थः । अवा


  1. च. कल्या ।