पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पञ्चयज्ञाकरणप्रायश्चित्तम्]
९६७
संस्काररत्नमाला ।

 उपवासाद्यसामर्थ्ये मनस्वत्येकाऽऽहुतिर्होतव्या । तदुक्तं प्रायश्चित्तप्रकाशे--

"एतेभ्यः पञ्चयज्ञेभ्यो यद्येकोऽपि च हीयते ।
मनस्वत्याहुतिस्तत्र प्रायश्चित्तं विधीयते" इति ॥

 मनस्वती घृतपदान्ता तस्या एव प्रायश्चित्तार्थत्वस्य सर्वत्र दर्शनात् ।

 द्व्यहं त्र्यहं लोपे तु बौधायनः--

"द्व्यहं वाऽपि त्र्यहं वाऽपि प्रमादादकृतेषु तु ।
तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीजपेत्" इति ॥

 अव ते हेड उदुत्तममिमं मे वरुण तत्त्वा यामीति चतस्रो वारुण्यः ।

 दशाहद्वादशाहलोपे तु स एवाऽऽह--

"दशाहं द्वादशाहं वा निवृत्तेषु तु सर्वतः ।
चतस्रो वारुणीर्हुत्वा कार्यस्तन्तुमते चरुः" इति ॥

 अत्रैवं व्यवस्था मनस्वत्याहुतिरेकाहाहुतिविच्छेदे ।

"द्व्यहं वाऽपि त्र्यहं वाऽपि प्रमादादकृतेषु तु ।
तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत्" ॥

 इति नु नवदिनपर्यन्तम् । तदूर्ध्वं तु दशाहं द्वादशाहं वेति वचनसिद्धो वारुणीचतुष्टयजपः, तन्तुमते चरुश्च । इदं चार्धाधानिना स्मार्ताग्निमता च तत्र कर्तव्यम् । एकादशीप्रयुक्तभ्रान्तिमता तु नित्यहोमलोपप्रयुक्तवक्ष्यमाणप्रायश्चित्तं विधाय कार्यम् । सर्वाधानिनाऽनग्निमत्ता च लौकिकाग्निं प्रतिष्ठाप्य कार्यम् । एतच्चाभोजने सति । भोजने तु--अकृत्वा तु महायज्ञानितिव्यासवचनसिद्धं चान्द्रायणम् । द्व्यहादौ द्वैगुण्यादि ज्ञेयम् । अबुद्धिपूर्व उपवासः । बुद्धिपूर्वे शक्तौ सत्यामेकैकलोपेऽनिर्वर्त्य महायज्ञानिति कृच्छ्रार्धम् ।

"पिण्डयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च ।
अदने पतितान्नस्य चरुर्वैश्वानरो भवेत्" ॥

 इति कात्यायनोक्तः स्थालीपाको वा । अस्याप्यशक्तौ पूर्णाहुतिरिति द्रष्टव्यम् ।

 ब्राह्मे--

"शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां क्रिमीणां च शनकैर्निक्षिपेद्भुवि" इति ॥

 शनकैः शनैः । अत्रोत्सर्गमन्त्रो विष्णुपुराणोक्तोऽग्रे प्रदर्श्यते ।

 गीतायाम्--

"यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्" ॥

 इति करणे फलातिशयोऽकरणे प्रत्यवायश्च स्मर्यते ।