पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६८
[वैश्वदेवप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 अत्र यज्ञो वैश्वदेव इति श्रीधरस्वामिना व्याख्यातम् । तेन साग्निकैर्निरग्निकैश्च भोजनलोपेऽपि येन केनापि द्रव्येण यथाकथंचित्पञ्च महायज्ञाः कर्तव्या एवेति निष्कर्षः ।)

अथ वैश्वदेवप्रयोगः ।

 तत्र[१] दायविभागे सति वैश्वदेवाधिकारः । दायविभागो विवाहात्पूर्वं[२] चेच्चतुर्थीहोमानन्त[३]रमेव गुरुशुक्रास्तमलमासादि[४]रहिते चन्द्रानुकूले[५] शु[६]भे काले प्रथमारम्भः[७] । तावत्पर्यन्तं तूष्णीं ग्रासमात्रमन्नमग्नौ प्रक्षिप्य भोक्तव्यम् । यदि चतुर्थीहोमोत्तरं केनचित्प्रतिबन्धेन देवकोत्थापनं न जायते तदा देवकोत्थापनानन्तरमेवाऽऽरम्भो भवति ।

"वैश्वदेवः स्वधाकृत्यं ब्रह्मयज्ञमुपोषणम् ।
सीमातिक्रमणं नैव देवकोत्थापनावधि" ॥

 इति[८] धर्मप्रदीपे देवकोत्थापनात्पूर्वं तन्निषेधात् ।

 अत्र प्रथमे प्रयोगे गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्यपि प्रधानसंकल्पात्पूर्वं कार्याणि । सिद्धेऽन्ने पाककर्ता वैश्वदेवकर्तारं ब्रूयाद्भूतमिति, तत्सुभूतं विराडन्नं तन्मा क्षायि तन्मेऽशीय तन्म ऊर्जं धास्तत्सुभूतमिति प्रतिवचनः[९](म्) । तत्सुभूतमित्येतावदेव वा प्रतिवचनम् । यदि स्वयमेव पाककर्ता तदा[१०] वचनप्रतिवचनयोर्लोपः[११] । स्त्रिया अप्येवं मन्त्रलोप एव । कर्ताऽग्न्यायतनस्य पश्चात्प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं[१२] सिद्धान्नेनामुकाग्नौ प्रातर्वैश्वदेवेन यक्ष्य इति प्रातः संकल्पं कुर्यात् । तथैव सायंवैश्वदेवेन यक्ष्य इति सायम्[१३] । अथवा ([१४]प्रातर्वैश्वदेवं करिष्ये सायंवैश्वदेवं करिष्य इत्येवं संक[१५]ल्पौ । केचित्तु--मम कण्डनीपेषणीचुल्लीसंमार्जनीगृहलेपनादिहिंसाजन्यदोषपरिहारपूर्वकान्नसिद्धात्मसंस्का


  1. ङ. त्र वैश्वदेवकर्तुर्वैश्वदेवाधिकारे सति चतुर्थीहोमानन्तरम्, अनधिकारे दायविभागोतरं गु ।
  2. क. र्व चतु ।
  3. क. ख. न्तरं गु ।
  4. च. दिव्यतिरिक्त च ।
  5. ख. ङ. ले. का ।
  6. य. शुद्धे ।
  7. ख. ङ. म्भः । यदि ।
  8. च. ति कमलाकरभट्टकृताचारप्रदीपोदाहृतधर्मप्रदीपवचनेन दे ।
  9. ङ. च. नः । यदि ।
  10. च. दा प्रश्नप्र ।
  11. ख. ङ. पः । क ।
  12. च. र्थ प्रा ।
  13. क. ख. म् । प्रा ।
  14. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"सिद्धान्नेनामुकाग्नौ वैश्वदेवं करिष्य इति वा संकल्पः । द्रव्याग्न्योरुद्देशेन वा प्रातरेवापकृष्य तन्त्रेण होमे तु प्रातःसायंवैश्वदेवाभ्यां तन्त्रेण यक्ष्ये । प्रातःसायंवैश्वदेवौ तन्त्रेण करिष्य इत्येवंभूतयोः संकल्पयोरन्यतरः संकल्पः कार्यः" इति ।
  15. क. ख. कल्पमिच्छन्ति । के ।