पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६६
[पञ्चयज्ञाकरणप्रायश्चित्तम्]
भट्टगोपीनाथदीक्षितविरचिता--

 सर्वथाऽन्नाभावे धर्मसूत्रे--

"काले स्वामिनमन्नार्थिनं न प्रत्याचक्षीयातामभावे तृणानि भूमिरुदकं
कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचन" इति ।

 एतत्फलमपि तत्रैव--"एवं वृत्तावनन्तलोकौ भवतः" इति ।

 ( [१] वैश्वदेवावसान उपस्थितानां चण्डालादीनामपि भोज्यत्वमुक्तं पराशरेण--

"पापो वा यदि चण्डालो विप्रघ्नः पितृघा[२]तकः ।
वैश्वदेवे हि संप्राप्तः संभोज्यः सोऽप्यसंशयम्" इति[३]

 बृहन्नारदीये--

"अन्नस्य क्षुधितं पात्रं पानीयस्य पिपासितम् |
द्रव्यदाने प्रकर्तव्यं विशेषात्पात्रवीक्षणम्" इति ॥)

 गोभ्यो ग्रासप्रदानमुक्तमृष्यशृङ्गेण--

"गवां ग्रासं च कुर्वीत नित्यमेव समाहितः ।
गवां कण्डूयनं स्पर्शं ग्रासमाह्निकमेव च" इति[४]

 ([५]पाकभाण्डस्थल[६]प्रतिपत्तिर्धर्मसूत्रे-- 'यत्र भुज्यते तत्समुह्य निर्हृत्यावोक्ष्य तं देशमम[७]त्रेभ्यो लेपान्संगृह्याद्भिः सं[८]मृज्य शुचौ देशे रुद्राय निनयेदेवं वास्तु शिवं भवति' इति ।

 पञ्चयज्ञाकरणप्रायश्चित्तमुक्तं सु[९]मन्तुना--

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इति ॥

 [१०]अकृत्वाऽन्यतमं यज्ञमित्येकत्वश्रवणादेकयज्ञलोपविषयमिति केचित् । अत्रेकत्वस्याविवक्षितत्वाद्द्वित्र्या(त्रा)दियज्ञलोपेऽप्येतत्प्रायश्चित्तं भवत्येवेत्यन्ये ।

 व्यासः--"अकृत्वा तु महायज्ञान्भुक्त्वा चान्द्रायणं चरेत् " इति ।

 अत्र बहुत्वमप्यविवक्षितं ज्ञेयम् ।

 मिताक्षरायां बृहस्पतिः--

"अनिर्वर्त्य महायज्ञान्यो भुङ्क्ते प्रत्यहं गृही ।
अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति" इति ॥


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  2. च. घातुकः ।
  3. च. ति गो ।
  4. ङ. ति । पञ्च ।
  5. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. पुस्तके ।
  6. क. ले प्र ।
  7. क. मन्त्रेभ्यो ।
  8. च. संसृज्य ।
  9. ङ. स्मृतौ ।
  10. एतदादिनिष्कर्षं इत्यन्तग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"एतद्बु(दबु)द्धिपूर्वकाकरणविषयम् । बुद्धिपूर्वे तु--अकृत्वा पञ्च यज्ञांस्तु भुक्त्वा चान्द्रायणं चरेदिति दष्टव्यम्" इति ।