हरेदिति मनुवचने शेषाद्भूतबलिहरणविधानाच्छेषनाशे लोप इति न भ्रमितव्यं, प्रतिनिधित्वेन द्रव्यान्तरोपादानसिद्धेः । आश्रयिकर्मणः स्विष्टकृत आज्ये[१]नेव । अन्यथा शेषस्य द्रव्यत्वसिद्धये देवयज्ञावृत्तिप्रसङ्गादिति उच्छृङ्खलाः । शेषं दक्षिणा निनयेदित्याश्वलायनसूत्रे द्वितीयाशेषपदश्रुतिभ्यां भूतयज्ञशेषप्रतिपत्तितया भूतयज्ञाङ्गत्वप्रतीतेः शेषनाशे लोप एवेति यद्यपि प्रतीयते तथाऽपि पितृयज्ञसिद्ध्यर्थं प्रतिनिधिमुपादाय पितृयज्ञः कर्तव्य एव सत्याषाढसत्रानुसारिभिः सूत्रकृता प्रतिपत्तित्वस्यानुक्तेः । ब्राह्मणभोजनं वा पितृयज्ञत्वेन कर्तव्यम् ) । नक्तमेव वैहायसः । रात्रावेव वैहायसः कर्तव्यः । रात्रावाकाश एव देयः । दिवा भूमौ ।
तथा च बौधायनः-- "अथाऽऽकाश उत्क्षिपन्ति ये भूताः प्रचरन्ति नक्तम्"
([२] स्मृतिरत्नाकरे जातकर्ण्यस्तु--
"वायसेभ्यो बलिं रात्रौ नैव दद्यान्महीतले । |
इति पात्रे बलिदानमाह ।
स्मृत्यन्तरे--
"द्विजो गृहबलीन्दत्त्वा नैव पश्येत्कदाचन । |
पृथ्वीचन्द्रोदये--
"अनुद्धृत्य बलीनश्नन्प्राणायामान्षडाचरेत् । |
बलीन्वैश्वदेवबलीन् । दर्शने तु प्रायश्चि[३]त्तानुक्तेः
गायत्र्यष्टशतं चैव प्राणायामत्रयं तथा । |
इति सामान्यप्रायश्चित्तमेव ।
"विष्णुस्मरणमेव स्यात्सर्वदोषनिबर्हकम्" । |
इति वचनाद्विष्णुस्मरणमात्रं वा ।)
धर्मसूत्रे--"एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च" इति ।