पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५२
[वैश्वदेवे बलिहरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

च्छन्तो०र्दधातु स्वाहा" इत्यनेन नक्तम् । 'ये भूताः प्रचरन्ति दिवा बलिम्' इति दिवा । एवं पदत्यागेन मन्त्रपाठः । आश्वलायनोऽपि-- 'दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तम्' इति ।

 ([१] बलिहरणे त्यागो न, हरणमात्रोक्तेः । यजतिजुहोतिचोदितत्वाभावाच्च । अन्यथा तर्पणेऽपि त्यागापत्तेरिति केचिदाहुः। अन्ये तु सूक्तवाककरणत्वान्यथानुपपत्त्या प्रहरतेर्यागकल्पकत्ववदत्रापि चतुर्थीनिर्देशान्यथानुपपत्त्या हरतेर्यागार्थत्वौचित्यादिति प्राहुः । अपर आहुः-- एवकारो भिन्नक्रमः । नक्तमुत्तमेन बलिरि(रेवे)ति तदन्यतराणां रात्रौ निवृत्तिरिति व्याख्यातमुज्ज्वलाकृता । अदित इत्यादिमन्त्रसाध्यपरिषेकत्वरूपधर्मस्य गार्ह्यकर्मस्वेव सत्त्वोक्तिरेतच्चोभयतः परिषेचनमित्यस्यापूर्वविधित्वकल्पे । परिसंख्याकल्पे तु गार्ह्यकर्मणामेवैतत्कर्मप्रकृतित्वाद्गार्ह्यकर्मस्वित्युक्तिरिति द्रष्टव्यम् । शय्यादेश उत्तरेण देहल्या उत्तरेणोत्तरेणापिधान्यामित्येवं वक्तव्ये कामलिङ्गेनान्तरिक्षलिङ्गेनेत्येवं वचनं ज्ञापयति स्वाहान्तेन चतुर्थ्यन्तेन कामपर्यायशब्देन तथाभूतेनान्तरिक्षशब्देनापि पक्षे दानमस्तीति । स्मराय स्वाहाऽनङ्गाय स्वाहेति । आकाशाय स्वाहा नभसे स्वाहेति । स्वधा पितृभ्य इत्येतावानेव मन्त्रः । न तु स्वाहान्तः । उज्ज्वलाकृताऽपि स्वधा पितृभ्य इत्येतावानेव मन्त्रः प्रदर्शितोऽस्ति । एतेन ज्ञायते स्वाहाकारपाठो नास्तीति । यद्यस्ति तदा पितृभ्यः स्वाहेतिमन्त्रान्तराभिप्रायेणैव स योज्यः । अस्मिन्कल्पे यज्ञोपवीतिताऽपि द्रष्टव्या । अयं च कल्पो जीवत्पितृकविषयकः । स्वधा पितृभ्य इतिमन्त्रान्त एव पित्र्यबलिर्देयः, न तु स्वधाशब्दान्ते । अन्यथा मन्त्रस्य करणत्वव्याघातापत्तेः । ननु स्वधाशब्दस्य दानार्थत्वात्तदन्त एव बलिदानमस्त्विति चेत्सत्यम् । मन्त्रान्त्या(न्त)स्थस्वधाशब्दान्त एव दानं न मध्यस्थान्त इत्यनायत्या(पत्त्या?) स्वीकारात्, स्वधाशब्दोच्चारणोत्तरत्वमादायापि दानार्थकत्वस्य यथाकथंचिन्निर्वाहसंभवाच्च । स्वधाशब्दान्ते दाने तु करणत्वं नैव निर्वहति । अ[२]तो मन्त्रान्त एव दानमिति सिद्धम् । द्वितीयवैश्वदेवे पुनस्तस्य तस्यैव देशस्य बल्यधिकरणत्वात्तस्य पूर्वकृतवैश्वदेवबलिव्यापृतत्वेन तत्र द्वितीयवैश्वदेवसंबन्धिपरिमार्जनादिधर्मविशिष्टबलिदानासंभवात्पूर्वबलिनिष्काशनमर्थसिद्धम् । देवयज्ञादिषु यज्ञशब्दप्रयोगे[३]ऽपि विद्युद्वृष्टी नैव भवतः । तयोः श्रौतयज्ञविषयत्वात् । शेषाद्भूतबलिं


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  2. च. ततो ।
  3. क. योगेषु वि ।