पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवे बलिहरणम्]
९५१
संस्काररत्नमाला ।

रस्य दशमैकादशाभ्यां प्रागपवर्गमुत्तरपूर्वार्धेऽगारस्योत्तरैश्चतुर्भिः शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेनोत्तरेणापिधान्यामुत्तरैर्ब्रह्मसदने दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिर्दद्याद्रौद्र उत्तरो यथादेवतं तयोर्नाना परिषेचनं धर्मभेदान्नक्तमेवोत्तमेन वैहायसः" इति ।

 अपरेणाग्निमग्नेः पश्चात्सप्तमाष्टमाभ्यां धर्माय स्वाहाऽधर्माय स्वाहेत्येताभ्यां बलिहरणं कर्तव्यम् । उदगपवर्गं न प्रागपवर्गम् । उदकं यत्र धीयते तदुदधानं मणिकाख्यं तस्य संनिधौ नवमेनाद्भ्यः स्वाहेत्यनेन मध्येऽगारस्य[१] । दशमैकादशाभ्यामोषधिवनस्पतिभ्यः स्वाहा रक्षोदेवजनेभ्यः स्वाहेत्येताभ्यां प्रागपवर्गम् । अगारस्योत्तरपूर्वार्धे गृह्याभ्यः स्वाहाऽवसानेभ्यः स्वाहाऽवसानपतिभ्यः स्वाहा सर्वभूतेभ्यः स्वाहेत्येतैः, प्रागपवर्गमित्येव । कामाय स्वाहेति शय्यादेशे । देहली द्वारस्याधस्तात् । तस्याधोवेदिकेत्येके । अन्ये त्वन्तर्द्वारस्य ग्रहणमिति । तत्रान्तरिक्षाय स्वाहेति । येना(ययाऽ)पिधीयते द्वारं साऽपिधानी कपाटं तदर्गलमित्यन्ये । तत्र-- यदेजति जगति यच्च० यन्नाम्ने स्वाहेति । उत्तरैर्ब्रह्मसदने । अगारस्येत्यनुवृत्तेस्तस्य यो ब्रह्मसदनाख्यो देशो वास्तुविद्याप्रसिद्धः, अगारस्य मध्ये(ध्यं), तत्रोत्तरैः पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहेन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहेत्येतैः, प्रागपवर्गमेव ।

 अपर आह-- मध्येऽगारस्येत्यत्र देशस्योपयुक्तत्वाद्ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्देक्षिणतः स ब्रह्मसदनस्तत्रेति ।

 अनन्तराणां बलीनां दक्षिणतः स्वधा पितृभ्य इत्यनेन बलिं कुर्यात् । प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणपाणिमुत्तानं कृत्वाऽङ्गुष्ठतर्जन्योरन्तरालेन पितृबलेरुत्तरतो रौद्रो बलिः । यथादेवतं प्राचीनावीत्यर्वाचीनपाणिरिति नानुवर्तत इत्यर्थः । नमो रुद्राय पशुपतये स्वाहेति मन्त्रः ।

 अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति तथाऽपि रुद्रस्यैव विशेषणमिति रौद्र इति व्यपदेश्यत्वेनोपप[२]न्नं देवतास्मरण[३]मपि रुद्रायेत्येव कुर्वन्ति । रुदाय पशुपतय इत्येके । केचित्तूत्तरो मन्त्रो रौद्रः स पशुपतिदेवत्य इति व्याचक्षते । तेषां देयः प्राग्वोदग्वा पित्र्यात् । तयोरनन्तरयोरन्त्ययोरेकस्मिन्देशे समवेतयोरपि नाना पृथक्परिषेचनं कर्तव्यं कुतो धर्मभेदात् । पित्र्यं स्यादप्रदक्षिणं परिषेचनमितरस्य दैवत्वात्प्रदक्षिणमिति । उत्तमेन 'ये भूताः प्रचरन्ति नक्तं बलिमि


  1. ख. ङ. च. स्य । ओष ।
  2. क. ख. षन्नदे ।
  3. क. ख. ङ. णमिति रु ।