पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५४
[वैश्वदेवे जीवत्पितृकस्य विशेषः]
भट्टगोपीनाथदीक्षितविरचिता--
(अनग्निकस्य वैश्वदेवे विशेषः)
 

 य एताननन्तरोक्तान्होमान्बलींश्चाव्यग्रः समाहितमना भूत्वा यथोपदे[शमुपदे]शानतिक्रमेण कुरुते तस्य नित्यः स्वर्गः पुष्टिश्च । नित्याः स्वर्गपुष्टिसंयुक्ता इति यत्पूर्वमुक्तं तस्यार्थवादता मा भूदिति पुनर्वचनम् । पुष्टिस्वर्गौ नित्यावेव भवतः, न प्रबलैरपि कर्मान्तरैर्बाधनमिति व्याख्यातमुज्ज्वलाकृता । एतानव्यग्रः कुरुते नित्यः स्वर्गः पुष्टिश्चेत्येतावतैव सूत्रोक्तकर्मानतिक्रमेणानुष्ठानकर्तुरेव नित्यस्वर्गपुष्टिसिद्धिरित्येतादृशार्थसिद्धौ यथोपदेशवचनं यावदत्र विहितं तावदेव कर्तव्यम्, नान्यत्परिस्तरणादि, नाप्यन्यच्छास्त्रान्तरोक्तमाकाङ्क्षितमविरुद्धमपि ध्यानसमिदभ्याधानादीतिज्ञापनार्थम् । एतेन ज्ञायते सति संभवेऽन्यत्र शास्त्रान्तरप्रोक्तमाकाङ्क्षितमविरुद्धं चेत्तदपि कदाचिदुपसंहर्तव्यमिति । ( [१]एतदन्तो वैश्वदेवः । अयं च जीवत्पितृकस्याप्यावश्यकः । मृतपितृकस्यैवेतिविशेषानुपलम्भात् ।

"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च ।
वैश्वदेवं पृथक्कुर्यात्पितर्यपि च जीवति" इति शाकलोक्तेश्च ।

 वैश्वदेवस्य पितृयज्ञसाध्यत्वाज्जीवत्पितृकस्य तल्लोपे तद्घटितस्य कर्मणोऽपि लोपप्रसक्ताविदं वचनम् । तत्र पित्र्यबलिं वर्जयित्वा कृत्स्नमवशिष्टं कर्म कर्तव्यमित्येके ।

 अन्ये तु--"येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" ।

 इति वचनात्पितामहादीनुद्दिश्य पितृयज्ञोऽपि कर्तव्य इत्याहुः ।

 परे तु--अग्निष्वात्तादीन्देवपितॄनुद्दिश्यैव पित्र्यबलिः कर्तव्य इति वदन्ति ।)

 अनग्निकस्य विशेषमाह वसिष्ठः--

"अनग्निकस्तु यो विप्रः सोऽन्नं व्याहृतिभिः स्वयम् ।
हुत्वा शाकलमन्त्रैश्च शिष्टाद्भूतबलिं हरेत्" इति ॥

 अनग्निको भार्याभावेन श्रौतस्मार्ताग्निपरिग्रहाधिकारशून्यः[२] । शकलप्रहरणसाधन[३]मन्त्रा देवकृतस्यैनसोऽवयजनमसि स्वाहेत्यारभ्य--एनस एनसोऽवयजनमसि स्वाहेत्य[४]न्ताः । एतच्च शकलप्रहरणं ज्योतिष्टोमे विहितम् ।

कर्मप्रदीपे--

"अग्न्यादिर्गौतमेनोक्तो होमः शाकल एव च ।
अनग्निकस्य त्वप्येष युज्यते बलिभिः सह" इति ॥


  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. च. पुस्तकयोरेव । अयं च नातीव संगतः ।
  2. ख. न्यः । शाकलम ।
  3. क. नशाकलम ।
  4. ख. त्यन्ता नारायणोपनिषद्गता एकादश मन्त्राः । कर्म ।