पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवपाककर्तारः]
९३७
संस्काररत्नमाला ।

हृतसूत्रव्याख्यानविरोधात् । पार्वणौपासनहोमयोरस्तु--"अत ऊर्ध्वम्" इति वचनाद्गृहप्रवेशस्थालीपाकोत्तरभावित्वम् ।

 शुभे दिने चन्द्राद्यानुकूल्येऽयमारम्भः कार्यः ।

"प्रशस्तेऽहनि कर्तव्यं शुभं कर्म सदा बुधैः ।
अनुकूले तथा चन्द्र इति गर्गादिभाषितम्"

 इति ज्योतिर्निबन्धवाक्यात् ।

 तत्र प्रातरे[१]व प्रथमोपक्रमः, सूत्रकृता रौद्रबल्यन्तं वैश्वदेवं विधायानन्तरं "नक्तमेवोत्तमेन वैहायसः" इति विधानेन प्रातरुपक्रमस्यैव दर्शितत्वात् ।

"ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तः" इतिमन्त्रे प्रातःसायंवाचकयोर्दिवानक्तपदयोर्मध्ये पूर्वं दिवाग्रहणा[२]त् ।

"वैश्वदेवं द्विजः कुर्यात्सदा कालद्वयेऽपि च ।
आरम्भो वैश्वदेवस्य दिवा चैव विधीयते" इत्याश्वलायनस्मृतेश्च ।

 आश्वलायनसूत्रवृत्तिकृद्देवत्राताभ्यामपि-- "अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्" इत्यस्मिन्सूत्रे दिवाचारिभ्य इति [३]दिवा नक्तंचारिभ्य इति [दिवा] नक्तमितिमन्त्रलिङ्गक्रमानुसारेण प्रातरुपक्रम एव साधितोऽस्ति । ([४]अत्र शूद्रस्याप्यधिकारो मन्त्रविशेषश्च "नमस्कारेण मन्त्रेण पञ्च यज्ञान्समाचरेत्" इति शूद्रं प्रकृत्य याज्ञवल्क्येनोक्तः । स्त्रीणां नास्त्यधिकारः "न स्त्रीणां पृथग्यज्ञः" इति याज्ञवल्क्योक्तेः "न स्त्री जुहुयान्नानुपेतः" इति धर्मसूत्राच्च । )

अथ पाककर्तारः ।

तत्रेदं धर्मसूत्रम्--

"आर्याः प्रयता वैश्वदेवेऽन्न स स्कर्तारः स्युर्भाषां कासं क्षवयुमित्यभिमुखोऽन्नं वर्जयेत्केशानङ्गवासश्चाऽऽलभ्याप उपस्पृशेदार्याधिष्ठिता वा शूद्राः स स्कर्तारः स्युस्तेषा स एवाऽऽचमनकल्पोऽधिकमहरहः केशश्मश्रुलोमनखवापनमुदकोपस्पर्शनं च सह वाससाऽपि वाऽष्टमीष्वेव पर्वसु वा वपेरन्" इति ।

 आर्यास्त्रैवर्णिकाः । प्रयताः शुद्धाः । अन्नं भक्ष्यं भोज्यं पेयादिकं संस्कुर्युः । न स्वयं नापि स्त्रियः । भाषा शब्दोच्चारणम्, कासः कण्ठे घुरुघुराशब्दः, क्षवथुः क्षुतमित्यन्नाभिमुखो न कुर्यात् । संस्कर्तारः स्युरितिबहुवचनोपक्रमाद


११८
 
  1. च. रेवोप ।
  2. क. ख. ङ. णाद्य । आश्वलायनसूत्र ।
  3. अत्र दिवाशब्दोऽधिकः ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।