त्रैकवचनं प्रत्येककर्त्रभिप्रायेण । केशादीनात्मीयानन्यदीयान्वाऽऽलभ्य स्पृष्ट्वाऽप उपस्पृशेत् । नेदं स्नानं किं तर्हि स्पर्शनम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहितम् । इदं तु वचनं तत्रोक्तं वैकल्पिकं सकृदाद्युपस्पर्शनं मा भूदिति । आर्यास्त्रैवर्णिकास्तैरधिष्ठिताः शूद्रा वा संस्कर्तारः स्युः प्रकृतत्वादन्नस्येति गम्यते । तेषां शूद्राणामन्नसंस्कारेऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः । यस्यान्नं पचति, यदि ब्राह्मणस्य हृदयंगमाभिरद्भिः । यदि क्षत्रियस्य कण्ठगताभिरद्भिः, यदि वैश्यस्य तालुगताभिरद्भिः । इन्द्रियोपस्पर्शनं च भवति । शूद्राः पचन्तः प्रत्यहं केशादि वपेयुः । इदमेषामधिकमार्येभ्यः सहैव वाससा स्नानं कर्तव्यम् । आर्याणां तु परिहितं वासो निधाय कौपीनाच्छादनमात्रेणापि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । अपि वाऽष्टमीष्येव वपेरन्केशादीन्पर्वस्वेव वा प्रत्यहं वा वपेरन् । अन्तर्भावितण्यर्थाद्वापयेदित्यर्थ इति व्याख्यातमुज्ज्वलाकृता । आर्याभावे स्वयं स्त्रिया चाऽपि पाकः कार्यः ।
तदुक्तं स्मृतिसारे--
"आर्याः स्युः पाककर्तारः स्वयं पत्न्यथ वा पचेत्" इति । |
([१] स्वयंपाकशब्दस्य पारिभाषिकत्वं स्मृतिरत्नाकरे--
"स्वहस्तेन स्वयंपाकः पत्न्या वा पच्यते यदि । |
नापि स्त्रिय इतीयमुज्ज्वलाकृदुक्तिस्त्वार्यसंभवे ज्ञेया । अन्यथा रेखालेखनसूत्रे पाके तु स्त्रिया न भवतीतिपूर्वोक्तविरोधपरिहारो न स्यात् )।
अयं च शूद्रकर्तृकः पाको युगान्तरविष[२]यो द्रष्टव्यः ।
"ब्राह्मणादिषु शूद्रस्य पचनादिक्रियाऽपि च" । |
इति कलिवर्ज्यपाठात् ।