पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३४
[वैश्वदेवाधिकारिनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

न्बलिं ह(लीन्ह)रेदपि वाऽन्यो ब्राह्मणः" इति गोभिलोक्तेः । अपि वाऽन्यो ब्राह्मण इति, अशक्तिकार्यव्यासक्तिविषये द्रष्टव्यम् । अन्यो[१] ब्राह्मण इत्यत्रर्त्विक्त्वेन वृतः शिष्यादिर्वेति द्रष्टव्यम् । निरग्नेस्तु स्वकर्तृकत्वमेवेत्याचारादर्शः । पुत्रादयोऽपि मुख्यानुज्ञयैव कुर्युः । ) पत्नीकर्तृको होमस्तु शाखान्तरविषयः । न स्त्री जुहुयादिति निषेधात् । एतेऽपि मुख्यानुज्ञयैव कुर्युः ।

तथा च कश्यपः--

"पुत्रो भ्राताऽथवा शिष्यः कुर्याज्ज्येष्ठाभ्यनुज्ञया ।
श्वशुरो मातुलो वाऽपि वैश्वदेवहुतिं सदा" इति ॥

 ([२]वैश्वदेवहुतिर्वैश्वदेवहोमः । ऋत्विक्कर्तृकत्वे तु तस्याऽऽदौ वरणं कृत्वा तेनर्त्विजा वैश्वदेवः कारणीयः 'नावृता याजयेयुः' इति निषेधात् । कर्मसमाप्तौ तस्मै हिरण्यं गौर्वा दक्षिणा देया । वरणभरणाधीनं हि ऋत्विक्त्वमित्यृत्विगधिकरणे मीमांसकोक्तेः । भरणं दक्षिणादानम् । असंभवे पूर्णपात्रं वा देयम् । 'पाकयज्ञेषु पूर्णपात्रं दक्षिणां दद्यात्' इति च्छन्दोगसूत्रात् । )

 प्रवासविषये बौधायनः--

"प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते ।
पञ्चानां महतामेषां सह यज्ञैः स गच्छति" इति ॥

 प्रवासं गच्छतो यस्य गृहे पञ्चानां[३] महतां यज्ञानां मध्य एषां बुद्धिस्थानां देवयज्ञादिमनुष्ययज्ञा[४]न्तानां[५] चतुर्णां कर्ता यदि विद्यते तदा मुख्यः कर्ता[६], यज्ञैर्देवयज्ञभूतयज्ञपितृयज्ञमनुष्ययज्ञैः सह न गच्छतीत्यर्थः । न च यथाश्रुतं विद्यत इत्यनेन नञोऽन्वयं परित्यज्य किमर्थं गच्छतीत्यनेन दूरस्थेनान्वयः क्रियत इति वाच्यम् । गृहे कर्त्रभावे यज्ञैः सह गमनस्यार्थत एव सिद्धत्वेन विधिवैयर्थ्यात्तेः । ( [७]अथवा कर्तृशब्देन मुख्यः कर्ता ग्राह्यः । प्रवासं गच्छतो यस्य भ्रातुर्गृहे मुख्यः कर्ता न विद्यते तदा देवयज्ञादिभिः सह गच्छति । प्रवासे पृथग्वैश्वदेवः कर्तव्य इत्यर्थः । ) पञ्चानां महतामेषामित्यत्रत्यैतच्छब्दस्य विभिन्नार्थकत्वकल्पनं तु पञ्चानां महतां मध्ये ब्रह्मयज्ञस्यापि प्राप्तत्वेन तत्र चान्यकर्तृकताया एवाभावेन पञ्चानामेषां महतां यज्ञानां गृहे कर्ता यदि विद्यते


  1. क. न्यो वा व्रा ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  3. क. नां यज्ञानां महतां बुद्धिस्थानां मध्य एषां चतुर्णां दे ।
  4. च. ज्ञादीनां ।
  5. क. नां क ।
  6. क. ख. ता, एतैर्दे ।
  7. धनुश्चिह्नान्तर्गतं नास्ति ख. पुस्तके ।