पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवाधिकारिनिर्णयः]
९३३
संस्काररत्नमाला ।

"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च ।
वैश्वदेवं पृथक्कुर्यात्पितर्यपि च जीवति" इति शाकलोक्तेश्च ।

 तत्र पित्र्यबलिर्वर्ज्य इत्येके ।

 केचित्तु--"येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" ।

 इति वचनात्पितृयज्ञोऽपि कर्तव्यः[१] पितामहादीनुद्दिश्येत्येके(त्याहुः) । अन्ये तु--अग्निष्वात्तादीनुद्दिश्यैव पित्र्यबलिः कर्तव्य इति वदन्ति ।

 आश्वलायनः--

"पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ।
सूतकाद्यैस्त्वशुद्धात्मा न कुर्यान्न च कारयेत्" इति ॥

यतु हरदत्त:--

"सूतकमध्येऽपि ब्रह्मयज्ञभिन्नाश्चत्वारो न त्याज्याः । 'तानेतान्यज्ञानहरहः कुर्वीत' इति । 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इत्यादिना बाधितानां प्रतिप्रसवेनैव सार्थक्यम् । ब्रह्मयज्ञस्तु न भवति । 'तस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः' इति श्रुतेः" इत्याह,

 तन्न । "पञ्चयज्ञविधानं तु न कुर्यान्मृतिजन्मनोः" इति देव[२]ले तन्निषेधात् । "अहरहः कुर्वीत" इति तु संध्यावन्दनादिवन्नित्यतामात्रबोधकमिति ।

 मुख्यस्य करणाशक्तावाहात्रिः--

"पुत्रो भ्राताऽथवा ऋत्विक्शिष्यश्वशुरमातुलाः ।
पत्नी श्रोत्रिययाज्याश्च दृष्टास्तु बलिकर्मणि" इति ।

 ([३]दृ[४]ष्टा इत्यत्र प्रतिनिधित्वेनेति शेषः । बलिकर्मणीतिवचनाद्बलावेव प्रतिनिधिरिति मदनरत्ने । बलिपदं वैश्वदेवोपलक्षणमिति पृथ्वीचन्द्रः । "न स्त्री जुहुयात्" इति निषेधाद्बलिमात्रं पत्नीकर्तृकं न होम इति सत्याषाढादिसूत्रानुसारिणाम्(णः) । आश्वलायनानां तु पत्नीकर्तृको होमोऽप्यस्ति । औपासनहोमस्याऽऽश्वलायनेन विहितत्वात् । ऋत्विक्साहचर्यात्साग्निकपरमित्याचारादर्शः । एते प्रतिनिधयः प्रवासादिविषय इति चन्द्रिका ।

 वस्तुतस्तु सदा गृहेऽपि स्वयंकर्तृत्वविकल्पः । "स्वयं त्वेवैतान्यावगृहे वस


  1. ङ. व्यः स्वधाशब्दवर्जमित्याहुः । वस्तुतस्तु जीवत्पितृकैः पित्र्यबलिरपि कर्तव्यः । तस्याग्निष्वात्ताद्युद्देश्यत्वादिति युक्तम् । आ ।
  2. क. वरातेन त । ख. वतेन त ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  4. क. इष्टा ।